SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥९॥ *** नंदिषेणः प्राह, हे प्रिये ! अद्याऽयं दशमो धृष्टः स्वर्णकारः कथमपि प्रतिबोधं न प्राप्नोति, प्रतिज्ञायामपूर्णायां च कथमहं भोजनं करोमि ? तत् श्रुत्वा तदीयक्षीणभोगकर्मफलप्रेरितयेव वेश्ययाऽपि प्रेमभृतहास्येन प्रोक्तं, तर्हि स्वामिन् ! अद्य दशमो भवानेव भवतु, तयैवमुक्तः स नंदिषेणो निजभोगकर्मफलं क्षीणं विज्ञाय तस्या एवैतद्वचोङ्गीकृत्य पश्चात्तापपरया तया वेश्यया बहुनिवार्यमाणोऽपि स्वकीयं पूर्वलिङ्गं गृहीत्वा ततो निःसृत्य गुरुपार्श्वे ययौ; तत्र च विधिपूर्वकं सम्यगालोचनां कृत्वा, पुनर्दीक्षां लात्वा, तीव्रं तपश्च तप्त्वा, कर्मक्षयं विधाय स नंदिषेणो महामुनिर्मुक्तिसुखं प्राप; ॥ इति श्री प्रथमनंदिषेणमुनिचरित्रं समाप्तं । श्रीरस्तु ॥ अथ द्वितीयनंदिषेणमुनिचरित्रं प्रारभ्यते- भूभूषणे मगधाख्ये देशे नंदिग्रामाभिध एको ग्रामोऽस्ति तत्र ग्रामे सोमिलाख्य एको द्विजो वसति स्म, सोऽतीवदारिद्याभिभूतो भिक्षायाचनेन निजनिर्वाहं करोति स्म, तस्य सोमिलाSSख्या पत्नी बभूव; तयो नदिषेणाभिधो नंदनोऽभूत्, अथ तं नंदिषेणं तदभाग्यवशात् बाल्ये एव मुक्त्वा तस्य मातापितरौ पञ्चत्वं प्राप्तौ; अथ दुर्भगकर्मोदयेन मस्तककेशादारभ्य ॥ श्रीनंदीवेण मुनिचरित्रं ॥ ॥९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy