________________
श्रीजैन कथासंग्रहः
॥श्रीनंदीषण मुनिचरित्रं ॥
॥१०॥
चरणनखपर्यतं तमत्यन्तं कुरूपं दृष्या स्वजना अपि तत्यजुः, एवं निराधारो दुःखाम्भोधी निमग्नः स ग्रामान्तरे निजमातुलगृहे गत्वा पशुसमूहाथै चारिपानीयाऽऽनयनादि सर्वमपि गृहकार्य करोति स्म, एवं तं निजभागिनेयं विनयपरं गृहकार्य कुर्वन्तं च विज्ञाय संतुष्टो मातुलस्तं जगी, हे वत्स ! त्वं खेदं मा कुरुष्व, मम सप्त कन्यकाः सन्ति, ताभ्य एकां कन्यां त्वया सह परिणाययिष्यामि. इति मातुलवचनं निशम्य स कुरूपो नंदिवेणो हृष्टः सन् सोत्साहं तस्य गृहकर्माणि सविशेष करोति स्म, एवं क्रमेण मातुलं संतोषयन् स यौवनं प्राप्तः,
अथ तस्य नंदिषेणस्य परिणायनस्वरूपगर्भितं मातापित्रोश्चेष्टितं विज्ञाय प्रथमकन्या निजतातं प्रति जगौ भो तात ! यदि त्वं मदीयं विवाहमनेन कुरूपेण नंदिषेणेन सह करिष्यसि तदाऽहं दुःखीभूतात्माघातं विधास्ये; तवृत्तान्तं निशम्य व्याकुलीभूतं चिन्तापरं च नंदिषेणं विज्ञाय मातुलोऽवदत्, भो नंदिषेण! त्वं विषादं मा कुरु, अहं द्वितीयां कन्यां तुभ्यं दास्यामि, परं सा द्वितीया कन्यापितं वृत्तान्तं विज्ञाय निजतातं प्रथमपुत्रीवज्जगी; एवमन्याभिः सर्वाभिः कन्याभिरपि प्रतिषिद्धः, स नंदिषेणोऽतीव विषादं संप्राप्तः; एवं तं विषण्णं विज्ञाय मातुलोऽवदत्, अन्यस्य कस्याऽपि पुत्री
॥१०॥