________________
श्रीजैन कथासंग्रहः
ዘረዘ
XXXXXXX
क्रीताऽस्मि, कृतज्ञाऽहं कथमपि त्वां न मुञ्चामि, तथापि यदि मां तिरस्कृत्य त्वं यास्यसि, तदाहं ते आत्मघातं विधाय स्त्रीहत्यापापं दास्यामि इत्युक्त्वा सा दिव्यरूपलावण्योपेता यौवनारूढा वेश्या निजकटाक्षबाणैस्तस्य महातपस्विनोऽपि नंदिषेणमुनेः संयमकवचं भित्त्वा बलान्निजकमलकोमले हस्ते तद्धस्तं दृढं धृत्वा गृहमध्ये समानयत्; अथ स मुनिरपि वीरप्रभो: शासनदेव्याश्च वचनं संस्मृत्य निजभोगकर्मफलं मत्वा तां वेश्यामङ्गीचकार, ततस्तत्रस्थः स नंदिषेणो मुनिरित्यभिग्रहं जग्राह यन्मया प्रतिदिनं दश दश नटविटादिपुरुषान् प्रतिबोध्य, दीक्षां च ग्राहयित्वैव भोक्तव्यं, अन्यथा न; एवं मुक्तमुनिलिङ्गः स नंदिषेणस्तया कृतज्ञया वेश्यया सह नानाविधेन्द्रियविलासान् विलसन् प्रतिदिनं च निजोपदेशलब्धिप्रभावाद्दश दश जनान् प्रतिबोध्य दीक्षां ग्राहयामास, एवं च कुर्वतस्तस्य द्वादशवत्सरी व्यतीता, अथैकदा तेन प्रतिबोधदानपूर्वकं नव पुरुषास्तु दीक्षां ग्राहिताः, दशमश्च मिलित एकः स्वर्णकारो बहुशः प्रतिबोधितोऽपि कथमपि प्रतिबोधं नाऽऽप्नोति, प्रत्युत वदति च, भो नंदिषेण ! यदि त्वमेवं विधां संसारासारतां जानासि तर्हि त्वं कथमत्र वेश्यागृहे स्थितो नानाविधभोगान् विलससि ? इतो भोजनवेलायां व्यतीतायां वेश्यया द्वित्रिवारं कृतायां रसवत्यामपि शीतीभूतायां स स्वर्णकारः कथमपि न प्रबुद्धः तदा तया वेश्यया प्रोक्तं, स्वामिन् ! भोजनावसरोऽपि व्यतीतः, अथ त्वमुत्थाय भुङ्क्ष्व,
॥ श्रीनंदीषेण मुनिचरित्रं ॥
ዘረ