SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 11011 स मुनिर्निजचरणरक्षार्थमेकदा पर्वतं समारुह्य ततो झम्पां दातुमुद्यतोऽभूत्; एवं स मुनिर्यावद्गिरेरग्रभागादघो झम्पां करोति तावत्तं करे धृत्वा सा शासनदेवी चान्यत्र मुक्त्वोवाच भो मुने ! साम्प्रतं त्वं मुधा मर्तुं कथं यतसे ? भोगकर्मफललब्धिं विना कदापि ते मरणं न भविष्यति, ततोऽसौ मुनिरेकाक्येव तीव्रतपः समाराधनपरोऽन्यदाऽनाभोगात्पारणकदिने कस्मिंश्चिन्नगरे कस्याश्चिद्वेश्याया गृहे आहारार्थं प्रविष्टो धर्मलाभमुच्चचार, तत् श्रुत्वा सहास्या सा वेश्याऽपि तं मुनिं प्रत्याह, भो मुने ! धनभोगार्थिन्या मम धर्मलाभेन किमपि प्रयोजनं नाऽस्ति, अहं तु सर्वदा शर्मलाभदं धनमेवेच्छामि, तत् श्रुत्वा मुनिर्दध्यौ, अहो ! यौवनमदगर्वितेयं वेश्या अकिञ्चनस्य मम हास्यं करोति ! यतः सा जानाति, यज्जैनमुनयो नित्यं निर्धना एव वर्तन्ते, अथ दर्शयाम्यस्या अपि मे प्रभावं, इत्यहङ्काराभिभूतोऽसौ मुनिर्भाविभावस्यावश्यम्भावित्वेन यावत्तस्या द्वाराग्रनीव्रात्तृणमाचकर्ष तावत्तस्य तपोलब्धिप्रभावाद् द्वादशकोटिमितं सुवर्णद्रव्यं तत्र गगनाङ्गणान्यपतत्; ततः स मुनिस्तां वेश्यामुवाच भो सुंदरि ! अनेन द्रव्यसंञ्चयेन त्वदभिमतः शर्मलाभस्तेऽस्तु, इत्युक्त्वा स नंदिषेणो मुनिर्यावत्ततोऽग्रे गन्तुं प्रवर्तते तावत्तया चतुरया वेश्यया तस्य पटाञ्चलं विधृत्य प्रोक्तं, हे स्वामिन् ! इदं कमलकोमलं शरीरं दुष्करतपोऽग्निना त्वं कथं शोषयसे ? अथ त्वं मद्गृहे स्थितो मया सह नानाविधभोगान् भुङ्क्ष्व ? त्वयाहमेतेन धनदानेन ॥ श्रीनंदीवेण मुनिचरित्रं ॥ ॥७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy