SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६॥ भगवद्देशनां निशम्य प्रबुद्धो नंदिवेणकुमारः कृताञ्जलिः प्रभुमपृच्छत् हे भगवन् ! अयं सेचनको गजो मां कथं प्रीतिपरो बभूव ? तत् श्रुत्वा भगवता तस्य गजस्य प्राग्भववृत्तान्तः कथितः; तत् श्रुत्वा वैराग्यमापन्नः स नंदिषेणकुमारः कथञ्चिन्मातापितरावापृच्छ्य प्रभुपार्श्वे संयममार्ग मार्गयामास; तत् श्रुत्वा ज्ञानवता प्रभुणा प्रोक्तं, भो नंदिषेण ! अद्यापि तव चारित्रावरणं भोगकर्मफलं च बलवत्तरं विद्यते, ततस्त्वं दीक्षार्थमुत्सुको मा भव, एवं प्रभुणा स्वयं निवार्यमाणोऽपि स नंदिणो यावद्दीक्षाग्रहणायात्यन्तमुत्सुको बभूव, तावदाकाशेऽपीति दीव्या वाण्यभवत्, भो नंदिषेण ! अधुना त्वं दीक्षाग्रहणं मा कुरु, अद्यापि तव भोगफलं भूरि वर्तते, एवं शासनदेव्यापि निषिद्धः स नंदिषेण उत्सुकीभूय निजवीर्यबलेन दीक्षां जग्राह; अथैवं गृहीतदीक्षः स नंदिषेणो महमुनिः षष्ठाष्टमादितीव्रतपः परोऽविश्रमं विजहार, त्रार्थवाचनापरो गीताभूय द्वादशभावना भावयन्, द्वाविंशतिपरीषहांश्च सहमानो निजकर्माण्युन्मूलयितुमुद्यमं करोति स्म, भोगकर्मोदयादुद्भवन्तीं तीव्र भोगेच्छां रोद्धुं स नंदिषेणो मुनिरातापनां कुर्वन्नानाविधोग्रतपांसि करोति स्म, यतः- आयावयंति गिम्हे । हेमंतेसु उवाउडा ॥ वासासु पडिसंलीणा । संजया सुसमाहिया ॥ १ ॥ चारित्रनिवारिणी सा शासनदेवता तु नित्यं तं महामुनिं संसारिकभोगाम्भोधौ पातयितुं समीहते; एवं देवीकृतानुकूलोपसर्गोऽपि ॥ श्रीनंदीवेण मुनिचरित्रं ॥ ॥६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy