________________
श्रीजैन कथासंग्रहः
॥श्रीनंदीवेण मुनिचरित्रं॥
॥५॥
छलबलादिविविधोपायांश्चक्रुः, परं स गजस्तैर्वशीकर्तुं म शक्यते; तदृष्ट्वा श्रेणिकनृपो निजहृदये विषण्णोऽभूत; एवं निजतातं विषण्णीभूतं विलोक्य नंदिषेणकुमारः स्वयं पितुराज्ञया तं गजं वशीकर्तुमुपस्थित, तं नंदिषेणकुमारं निजसन्मुखं समायातं विलोक्योहापोहं कुर्वन् स गजो जातिस्मरणज्ञानं प्राप्तवान्, एवं जातजातिस्मृतिः स दंती निजपूर्वभवसंबंधिनं स्वामिनं विलोक्य निजौद्धत्यं परित्यज्य तत्रैव स्थिरीभूतस्तस्थौ; एवं निजवशीभूतं तं करिणं नंदिवेणो नीत्वाऽऽश्चर्यमग्नाय निजताताय श्रेणिकभूपाय समर्पयामास; ततस्तं सेचनकं गजेन्द्र पुरे नीत्वा श्रेणिकनृपो महोत्सवपूर्वकं पट्टहस्तिनं चकार, नंदिषेणकुमारमपि सविशेष ग्रामाद्यर्पणात् प्रीणयामास; इतः कियदिनान्तरं श्रीमहावीरः प्रभुस्तत्पुरोद्याने समवसृतः, श्रेणिकनृपनंदिषेणकुमारादिपुरलोकाश्च भगवद्वन्दनार्थ समवसरणे समाययुः; सर्वेऽपि विधिना भगवन्तं वन्दित्वा यथास्थानमुपविष्टाः, भगवतापि देशना प्रारब्धा, भोभो भव्यलोकाः! इहाऽपारे संसारे मनुष्यत्वं, क्षत्रियाद्युत्तमजातिः, ईक्ष्वाक्वाद्युत्तमं कुलं, शरीरारोग्यं, आयुःसम्पत्तिः, लक्ष्मीलाभकृत्सुव्यापारः, सर्वप्राणिदयामयो जैनधर्मः, सद्गुरुसंयोगः, धर्मशास्त्रश्रवणं, धर्मोपरि श्रद्धा, देशविरते: सर्वविरतेर्वा लाभः, एतेषां प्राप्तिः खलु दुर्लभैव, अत: पूर्वपुण्ययोगेन प्राप्तां पूर्वोक्तां सामग्री लब्वा प्रमादमुत्सृज्य भव्यलोकैर्मुक्तिप्राप्त्यर्थं संयमाऽऽराधनं विधेयं, एवं कर्णसुधाप्रवाहतुल्यां
॥५॥