________________
श्रीजैन
॥श्रीनंदीषण मुनिचरित्रं॥
कथासंग्रहः
॥४॥
कारयति; तापसा अपितं कलभं परमानन्देन श्यामाकग्रासदानादिना पोषयन्ति; एवं क्रमेण वृद्धि प्राप्तः स कलमोऽपि तापसबालैः सह निजां मनोहरां शुण्डां लालयन् नानाविधक्रीडां करोति; तापसबालाश्च सरस्या जलभृतकलशानानीयाश्रमदुमान् सिञ्चन्ति, तैः सह स कलभोऽपि सरीं गत्वा निजशुण्डायां जलं भृत्वा तानाश्रमदुमान् सिञ्चति; ततस्तैस्तापसैस्तस्य कलभस्य सेचनक इति नाम विहितं; एवं स कलभो नानाविधक्रीडां कुर्वन् तापसबालानां परमानन्दपात्रं बभूव; क्रमेण स तत्रैव यौवनं
प्राप्तोऽन्येधुनिजहृदये चिन्तयामास, मदीयमात्राऽहं छलेन निजपतिं यूथनायकं वञ्चयित्वास्मिन्नाश्रमे - यथा जनिस्तथा माऽपरापि हस्तिन्यत्रागत्य मम प्रतिस्पर्धिनमन्यगजं जनयतु, इति विचार्य मदोन्मत्तः स
करी निजाश्रयदायकानां तेषां तापसानामेवाश्रमं दुर्जन इव बभञ्ज; अहो ! अयं मदोन्मत्तो गजोऽस्माभिलालितः पालितोऽपि कृतघ्न इवास्माकमेवाश्रमं विनाशयति, अतोऽस्य बन्धनार्थ कोऽप्युपायः कर्तुं युज्यते, इति विचिन्त्य ते तापसा मिलित्वा श्रेणिकनृपपार्वे ययुः, कथयामासुश्च तस्य सेचनकगजस्य सर्वमपि स्वरूपं; तत् श्रुत्वा स श्रेणिकनृपोऽपि निजसैन्यं सन्ना 'विचक्षणामोरणयुतस्तं हस्तिनं धतुं वने गतः; आधोरणाश्च ते तं गजं वशीकतुं १. गजगतिनिपुणैः।