________________
श्रीजैन कथासंग्रहः
॥श्रीनंदीवेण मुनिचरित्रं ॥
शस्यकवलग्रहणाऽनभिज्ञा। मन्मार्गवीक्षणपराः शिशवोमदीयाः॥१॥अथ सदुष्टो यूथाधिपतिर्दथ्यौ, अस्याः करिण्या अन्य: करी भोक्ता मा भवतु, इति ध्यात्वा सोऽपि तस्याः पञ्चामन्दं मन्दं सञ्चरंस्तामेकाकिनी न मुञ्चति. सा दक्षा करिणी तु प्रतिदिनमधिकाधिकं मन्दं मन्दं सञ्चरति; तदास करी चाऽप्बुद्विमोऽन्यवेगवतीकरिणीनां रक्षणार्थ तां करिणी विमुच्य ताभिरन्यकरिणीभिरेव सममग्रेऽग्रे सञ्चरति; सा करिण्यपि तस्य विश्वासोत्पादनार्थ दिनद्वित्रयान्तरे निजपत्युस्तस्य युधनाथस्य मिलति; तदा प्राप्त विश्वासः स यूधपतिरिति दयौ, नूनमियं वराकी करिणी वातरोगाभिभूतास्ति, तथापि सा प्रेमपाशबद्धा मदीयोपान्तं न मुञ्चति. एवं जातविनम्मे यूधनाचे दूरस्थे कदाचित् स्वप्रसवसमयं विज्ञाय सा करिणी मौलि'घृततृणपूला निकटस्थे तापसाश्रमे ययौ; अथ विनयननीभूतां तां शान्तस्वभावां करिणीं शरणार्थिनीमिव मत्वा ते तापसाः प्रोचुः, भो पुत्रि! त्वं सुखेनैवात्र तिष्ठ; इह ते कुतोऽपि भयं नास्ति, एवं तैस्तापसैराग्वासिता सा हस्तिनी तत्र स्थिता तस्मिन्नेव तापसाश्रमे शुभलक्षणोपेतं गजमेकं प्रसूते स्म; ततस्तं निजाउपत्यं तत्रैव तपासाश्रमे मुक्त्वा सा मन्दमन्दं सञ्चरंती निजयूधपतिपावें गता; ततोऽन्तरान्तरा सा तणचरणमिषेण सञ्चरती प्रच्छन्नं तत्र तापसाबमे समागत्य तं निजकल स्तन्यपानं १. मस्तकमृततुणपूला।