________________
श्रीजैन कथासंग्रहः
॥श्रीनंदीवेण मुनिचरित्रं ॥
॥२॥
कुर्वन् स्वाजीविका निर्वहति, द्विजापितं राधानशेषं च स नित्यं तपस्व्यादिसाधुभ्यः प्रयच्छति; एवमुपार्जितपुण्यपाधेयः स भीमः कियत्कालानन्तरं मृत्वा देवलोके देवो बभूव; तत्र च दिव्यसुखान्यनुभूयाऽऽयुःक्षये ततश्च्युत्वा मगधदेशे राजगृहे नगरे श्रेणिकाख्यस्य क्षोणीभृतो नंदिषेणाभियः पुत्रो जातः; स मुखप्रियद्विजश्च मृत्वा भूरिषु भवेषु प्रान्त्वा वनमध्ये गजयूथे कस्याश्चित् करिण्या उदरेऽवातरत्; क्रमेण तया करिण्या प्रसूतः सः कलभो यौवनं प्राप्तो व्यचिन्तयत्, अथात्र यूथे मदन्यः करी यूधनायको माभूदिति विचिन्त्य यूथपतीभूतः स युवा करी करिणीभिः प्रसूतान् सर्वानपि गजकलभान् जन्मसमये एव मारयामास, करिणीश्च प्रसुता रक्षयामास; अथ तस्मिन् यूथे स्थितानां करिणीनां मध्यादेका दक्षा गर्भिणी करिणी दथ्यो, यदेषो दुष्टो यूथाधिपतिर्जातमात्राण्येव सर्वासां करिणीनामपत्यानि मारयति, अहं चाऽधुना गर्मिण्यस्मि, मदीयमनसि च महानुत्साहो वर्तते, तन्नूनं मम गजरूप: कलभो भविष्यति, सोऽपिचारिसंहारकर्ता भविष्यति, ततोजातमात्र एवायं कलमोऽन्यत्र मुक्त्वा मया त्रातव्यः. इति ध्यात्वा सा दक्षा करिणी निजापत्यरक्षणार्थ मायया वातरोगग्रस्तीभूय खम्बीभूतचरणेव मन्दमन्दं सञ्चरंती यूथात्पश्चात् पतति; अहो! पशूनामपि निजाऽपत्येषु महान् मोहो भवति, यतः-आदाय मांसमखिलं स्तनवर्जमंगान्मां मुञ्च वागुरिक यामि कुरु प्रसादं ॥ अद्यापि
॥२॥