________________
श्रीजैन कथासंग्रहः
॥२१॥
।। षोढास्य' यतना कार्याऽऽकाराः षट् षट् च भावनाः । षट्स्थानानीति' षट्षष्टिभेदशुद्धं हि दर्शनम् ॥ २४८ ॥ सम्यग्दर्शनभाग् जीवः स्यात् सम्यग्ज्ञानवांस्ततः । सम्यक्चारित्रसम्प्राप्त्या प्राप्नुयात् परमं पदम् ।। २४९ ।। जीवो निर्वाणमापन्नः कर्मक्लेशैर्विमुच्यते । पुनर्नाऽऽयाति संसारमजरामरतां गतः ॥ २५० ।। यदाहुः श्रीहरिभद्रसूरयः - दंग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाऽङ्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाऽङ्कुरः ।। २५१ ।। अतो भव्याऽऽत्मभिर्धर्मः समाराध्यः शिवार्थिभिः । मिथ्यात्वं सर्वथा त्याज्यं भवभ्रमणकारणम् || २५२ ।। लोकलोकोत्तरभेदैर्मिथ्यात्वं द्विविधं मतम् । देवगुरुधर्मभेदैस्तत्त्याज्यं त्रिविधं पुनः ॥ २५३ ॥ मिथ्यात्वं परमो रोगो मिथ्यात्वं परमं विषम् । मिथ्यात्वं परमः शत्रुर्मिथ्यात्वमेव दुर्गतिः ॥ २५४ ॥ मिथ्यात्वत्यागतः पुंसां सम्यक्त्वं निर्मलं भवेत् । आत्मशुद्धिस्ततो मोक्षपदवी न दवीयसी ॥ २५५ ॥ व्यन्तरी प्रकटीभूय स्वाऽगः क्षाम्यति सा ततः । वीतरागप्रभावेण शाम्यन्ति जातिवैरिणः ।। २५६ ।। प्रतिबोध्य दुर्ललितनृपादीन् नागरान् जनान् । गत्वा शत्रुञ्जये तीर्थे
१. परतीर्थिकानां वन्दनम्, तत्रमस्करणम्, पात्रबुद्ध्यादानं, अनुप्रदानं आलाप:, संलापञ्चैतेषां वर्जनम् । २. राज-गण-बलदेवाभियोग- कान्तारवृत्ति - गुरुनिग्रहाख्याः । ३. सम्यक्त्वं धर्मवृक्षस्य मूलम्, धर्मपुरस्य द्वारम्, धर्मसीधस्य पीठम्, धर्मस्याधारः, धर्मस्य भाजनम्, धर्मरत्ननिधानं चेति । ४. अस्ति जीवः, स नित्यः कर्मणां कर्ता, भोक्ता, जीवो मोक्षं याति, मोक्षोपायचेति ।
श्रीचन्द्रलेखा कथानकम् ।
॥२१॥