________________
श्रीजैन कथासंग्रहः
श्रीचनालेखा
आसन्नदेवताभिश्च मुद्रा तस्यै समर्पिता। ततस्तया शिरोलोचश्चतुर्मुष्टया विनिर्ममे॥२४१॥ सुवर्णकमले। स्थित्वा रम्ये देवविनिर्मिते । धर्म दिदेश भव्यानां पुरतः शिवशर्मदम् ॥ २४२ ॥ स चैवम्-चतुर्दा पुरुषार्थेषु मोक्ष एवोत्तमो यतः । तदर्थ चर्यते धर्मः कामार्थी धर्मसम्भवी ।। २४३ ॥ सम्पनिदर्शनज्ञानचारित्राण्यस्य हेतवः । सम्यक्त्वं 'स्यादधिगमानिसर्गादपि देहिनाम् ॥ २४४ ॥ सम्यग्जिनोक्ततत्त्वेषु श्रद्धानं दर्शनं हि तत् । तस्य भेदास्तु षट्षष्टिः प्रत्यपादि जिनेश्वरैः ॥ २४५॥ श्रद्धानं'हिचतुर्धा स्यात् पुनर्लिङ्गत्रय ततः । दशप्रकारों विनयस्तिस्त्रोऽथ शुद्धयो मताः ॥ २४६ ॥ दोषास्तु पञ्च सन्त्याज्या अष्टावथ प्रभावकाः । भूषणान्यपि पञ्चास्य पञ्चैव लक्षणाति च ॥२४७ ।
॥२०॥
१. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । तत्त्वा. अ. १ सू. २. तनिसर्गादपिगमाद्वा । ३. परमार्थसंस्तवः, २ परमार्थज्ञानिसेवा, कुगुरुत्यागः ४ कुदर्शनत्यागः । ४. धर्मशुश्रूषा, २ धर्मरागः, ३ देवगुरुवयावृत्त्यम् । ५. अरिहंतसिद्ध-चैत्य-सिद्धान्तयतिधर्म-श्रमणाचार्योपाध्यायप्रवचनदर्शनभेदैः । ६. मनोवाकायभेदो ।
शाकाहाविचिकित्सा-मिथ्यात्वप्रशंसा तत्परिचयश्चेति । ८. प्रावधनिकः, धर्मकथिकः, वादी, नैमित्तिकः, तपस्वी, विधामन्त्रबली, सिद्धः, कवी वेति । ९. जिनशासनकौशल्यम्, शासनप्रभावना, तीर्थसेवा, धर्मस्वैर्य, सद्देवगुरुसेवा। १०. उपशमसंवेगनिर्वेदानुकम्पास्तिक्याख्यानि ।
॥२०॥