SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१९॥ ❤ ❤ ❤ CO ❤ O ७ प्रेक्षस्व कर्म मे ॥ २२८ ॥ क्षोभनार्थं ततस्तस्या महाघोराश्च राक्षसाः । विकुर्विताः कर्तृकाव्य' करा अतिभयङ्कराः ॥ २२९ ॥ तारस्वरेण ते प्रोचुः स्फोटयन्तो गिरीनपि । त्यज धर्ममन्यथा त्वां गिलिष्यामः क्षणादपि ।। २३० ।। त्यक्त्वा श्रावकधर्म नः क्रमाब्जं वा प्रपूजय । मुक्तिसुखकृते मूढे ! नो चेन्नाशं गमिष्यसि ॥ २३९ ॥ तद्वचोवज्रपातेऽपि शशिलेखाऽतिनिश्चला । अखण्डयन्न सम्यक्त्वं जानती मण्डनं हृदः ।। २३२ ।। रक्षोभिया न नियमान् भङ्क्ते यावद् दृढव्रता । वाताऽऽहता इवाऽम्भोदास्तावल्लीनाः क्षणेन ते ॥ २३३ ॥ ततोऽतिघोराः करिणो हरयोऽपि विकुर्विताः । तेषामप्युपसर्गे न सा चुक्षोभ मनागपि ॥ २३४॥ केशैर्धृत्वा दुर्ललितं नृपतिं देवमायया । दर्शयित्वा व्यन्तरी सा धृष्टा दुष्टाऽब्रवीदिति ॥ २३५ ॥ एनं कपटधर्म मेऽग्रतो मुञ्चायि मुग्धिके ! । निःसंशयं मारयिष्येऽन्यथैनं ते प्रियं प्रियम् ।। २३६ ।। सा तच्छ्रुत्वा स्थिता तूष्णीं विशेषध्यानतत्परा । तदा कूटनृपोऽरोदीत् तत्पुरः करुणस्वरम् ॥ २३७ ॥ प्रिये ! धर्मममुं मुञ्च येन कष्टमपैति मे । स्वजीवितप्रदानेन रक्षन्ति कुलजाः पतिम् ॥ २३८ ॥ ततः साऽचिन्तयच्चित्ते भवे भवे भवेत् प्रियः । न तु धर्मोऽतिदुष्प्रापः खण्डयामि न तद् व्रतम् ।। २३९ ॥ चिन्तयन्त्याः क्षणादेवं क्षीणेषु घातिकर्मसु । उत्पन्नं केवलज्ञानं तस्याः सर्वाऽवभासकम् ।। २४० ॥ १ लघ्वसिव्याप्तहस्ताः । ❤ O ❤ e e श्रीचन्द्रलेखा कथानकम् । ॥१९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy