________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥१८॥
निर्वाणहय॑स्य निधानं सर्वसम्पदाम् ॥ २१६ ॥ गुणानामेकमाधारो रत्नानामिव सागरः । पात्रं चारित्रवित्तस्य सम्यक्त्वं श्लाघ्यतेन कैः?॥२१७ ॥ तद्भो प्रमादमदिरां त्यक्त्वोपादत्त दत्तशिवसौख्यम् । शुद्धं श्रावकधर्म कुकर्ममर्माविधं सुधियः ॥ २१८ ॥ परतीर्थेऽपि गतानां येषां मरणेऽप्युपस्थिते पुंसाम्। सम्यक्त्वभक्तिरक्तिर्भवति हि ते प्राप्नुवन्ति शिवम् ॥ २१९ ॥ शशिलेखां ततः प्राह गणभृद् वचनं ह्यदः । जानती स्वपूर्वभवं भद्रे ! किं नाऽवबुध्यसे ?।। २२०॥श्रीमच्छत्रुञ्जये तीर्थे समाराध्याऽऽदिमं जिनम् । कोपं दुर्ललिते राज्ञि त्वया कुर्वाणयापि हि ॥ २२१ ॥ सम्यग्दर्शनसेवनवशादाप्तेदृशी रमा । त्वयाऽखिलत्रिभुवनाऽऽश्चर्यकृन्मतिवैभवः ।। २२२॥ युग्मम् ॥ इति श्रुत्वा गुरोर्वाचं सम्यक्त्वरत्नसुन्दरम् ।चन्द्रलेखाऽतिवैराग्या जग्राह श्रावकव्रतम्॥ २२३॥ नियमांश्च यथाशक्ति लात्वा राजादयो जनाः। नत्वा सूरि ययुः सर्वस्वं स्वं स्थानं प्रमोदिनः ॥२२४॥शशिलेखा पर्वतिथौ समचित्ता निजालये। व्रतप्रपालनार्थ च चकार पौषधव्रतम् ॥ २२५ ॥ एकस्मिन् दिवसे मेरुशैलनिश्चलमानसा। आन्तरारिनिग्रहार्थ कायोत्सर्ग चकार सा ॥ २२६ ॥ तदा सम्यक्त्वदायं च द्रष्टुं तद्भ्याननिश्चयम् । शशंस तां मुदा सम्यक्सुरी तावद् विशुद्धधीः ॥ २२७ ॥ नैव देवाऽऽदयोऽप्येनां धर्माच्चालयितुं क्षमाः । श्रुत्वा प्रोवाच मिथ्यादृग्देवी
॥१८॥