SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा - कमानकम्। ॥१७॥ पूर्णप्रतिज्ञा सा स्फारशारभासुरा। अन्त:पुरगतं भूपं कृतहासैवमभ्यधात् ॥ २०३॥ सदोषाऽहं परित्यक्ता "युक्तमेतत् परं नृप !। अपराद्ध किमन्याभिर्यत् ता दारा जहासि भोः ? ॥ २०४ ॥ अथवा सुरसुन्दर्या विलासरसिकस्य ते। अस्मादृशांन नामापि गृहीतं कुरुते रतिम्॥ २०५॥ राजा चमत्कृतश्चित्ते तद्वाचा तां निरूप्य च । उपलक्ष्य पुनः सम्यक् तत् किमेतत् किमित्यवक् ॥ २०६ ॥ ततो नत्वा नृपोऽवादि तया योऽविनयों मया । योगिन्या वचसाऽकारि क्षन्तव्यः स त्वया मम ॥ २०७॥ आश्चर्यहर्षविषादपूरितात्मा नराधिपः । देवीपदे बुद्धिमी चन्द्रलेखामतिष्ठिपत् ॥ २०८ ॥ उक्तं च-तावद्रोषश्च गर्वश्च पूर्वदोषादिसंस्मृतिः । समुत्कीर्णा इव स्वान्ते गुणा यावल्लगन्ति न॥ २०९ ॥ सर्वान्तःपुरसंयुक्तो राजा पातालवेश्मनि । भुञ्जानो विविधान् भोगान् सहस्राब्दीमजीगमत् ॥ २१० ॥ अथाभयङ्करः सूरिर्मुनिवृन्दपरिवृतः । उद्याने समवासार्षीत् कुसुमाकरनामनि ॥२११॥ दुर्ललितनृपः सूरिमुपेत्यानन्दमेदुरः । शशिलेखायुतोऽश्रौषीनत्वा तं धर्मदेशनाम्॥२१२॥ तथाहि-श्रेयो विषमुपभोक्तुं क्षमं भवेत् क्रीडितं हुताशेन । संसारबन्धनगतैर्न तु प्रमादः क्षमः कर्तुम् ॥ २१३ ॥ तस्यामेव हि जाती नरमुपहन्याद् विषं हुताशो वा। आसेवितः प्रमादोहन्याजन्मान्तरशतानि ॥२१४॥ तस्मात् प्रमादं निर्धूय सम्यक्त्वे क्रियतां मतिः । मूलादिभूते धर्मस्य द्वादशव्रतरूपिणः ॥ २१५॥ मूलं धर्मद्रुमस्यैतद् द्वारं धर्मपुरस्य च । पीठं ॥१७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy