SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥१६॥ दिवसं वक्रोक्तिभिः सुखेन सः ॥ १८९ ॥ निशीधिन्यां प्रेक्षणादिव्यवसाये विसर्जिते । राजा व्यज्ञपयदेवं योगिनीं तां कृताञ्जलिः ॥ १९० ॥ अयि स्वामिनि ! सन्तुष्टा कल्पवल्लीव चेत् तदा । यच्छ मेऽप्सरसं रन्तुमासां मध्याच्च काञ्चन ।। १९१ ।। सां तमाह कथमपि रज्यन्त्यप्सरसो नरे । उज्झन्त्येताः क्षणार्धेन तदा देवकुमारकाः ।। १९२ ।। परं विद्याबलेनाऽऽशु करिष्ये ते समीहितम् । किन्त्वाजन्मं त्वया कार्यमेतासां वचनं किल ।। १९३ ।। वचनेऽङ्गीकृते राज्ञा शशिलेखामुवाच सा । त्वदाज्ञानिरतस्यास्य पूरयस्व मनोरथम् ॥ १९४ ॥ निद्रां चिरजागृतोऽसौ लभतां ते गृहोपरि । सुरशय्यासङ्गसुखमन्यत् ते कृपयाऽश्नुताम् ॥ १९५ ॥ साऽप्याख्यदुपरितले तूलिका नास्ति कापि हि । यद्येष काङ्गति सुखं स्वयं नयतु तूलिकाम् ॥ १९६ ॥ ततः शतगुणोत्साह उत्थाय सहसा नृपः । शिरसा तूलिकां धृत्वा चटितो भवनोपरि ।। ९९७ ॥ पुनरुत्तीर्यं पर्यङ्कं निधाय मस्तके नृपः । भवनस्योपरि नीत्वाऽऽस्तृणोति स्म च दासवत् ॥ १९८ ॥ योगिनीवचसोत्पाट्य सपर्यङ्कां च तूलिकाम् । सुरसुन्दर्या उपरितले नीत्वाऽऽस्तृणोन्नृपः ॥ १९९ ॥ सापि स्थित्वा स्वशय्यायां रतिरसगुणैस्तथा । चित्तं जहे यथान्याः स मन्यते रासभीरिव ॥ २०० ॥ यामिन्याः पश्चिमे यामे बद्ध्वा पट्टं च नेत्रयोः । नरनाथः स योगिन्या मुक्तः स्वभवने रयात् ।। २०१ ॥ एवमागच्छति नृपे प्रत्यहं भणिता तया । शशिलेखे ! ध्रुवं दासो जज्ञे ते पतिरप्यसौ ॥ २०२ ॥ ततः O ँ O O श्रीचन्द्रलेखा कथानकम् । ॥१६॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy