________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथामकम्।
॥१५॥
शशिलेखाह शिष्यस्ते को नामाशं निवेदय ॥१७६ ॥ विद्याभृन्नागजातिर्वा गन्धर्वो वाऽसुरः सुरः। तत्कृते गौरवं कुर्वे यथाशक्ति यथा सखे!॥१७७ ॥ सा तां योगिन्यपि प्राह नैव नागादिजातिजः । मानुष्यकुलकोटीरः किन्तु दुर्ललितो नृपः॥१७८॥अथ नाशां कूणयित्वा साऽवोचद् वञ्चितासि भोः!। नूनं केनापि पूर्तेन नरेणालीकभक्तिना ॥ १७९ ॥ साप्याह मनसि वत्से ! मा वृथा चिन्तयान्यथा। दिव्यदेहो मया चक्रे स्वशक्त्यासी समन्ततः ॥ १८०॥ अनागतस्त्वया नेयः परमं गौरवास्पदम् । यस्मिंस्तुष्टास्मि नो तस्य किशनाप्यतिदुर्लभम् ॥ १८१॥ भोजय तदमुं शिष्यं मद्वाचा निजभाजने। दिव्यया रसवत्याउरमाजन्माऽभुक्तपूर्वया ॥ १८२ ॥ ततो योगिन्यपि प्राह भूपमागच्छ वत्स ! हे। भुक्ष्वाऽमा नागपल्येमां दिव्यां रसवर्ती द्रुतम् ।। १८३॥ मेने कृतार्थमात्मानमुच्छिष्टं तद् विदन्नपि। भुजन् को वाऽथवा खीभिर्वधितो भुवि नो जनः ? ॥१८४॥ यदाह-रेरे कण! मा रोदीः कं कंन प्रमयन्त्यमूः ? । कटाक्षक्षेपमात्रेण करस्थस्य तु का कथा?॥ १८५॥ सुभाषितेन गीतेन युवतीनां च लीलया। मनोन भिद्यते यस्य स योगी हथवा पशुः॥१८६॥ मनोज्ञं कापि कन्यामन्यद् यच्छत्यथो पुनः। योगिनीवचनादन्या तन्मध्येऽत्ति विहस्य च ॥१८७॥ तस्मै सुगन्धिताम्बूलं दत्त्वा वदती पुत्रक! प्रेक्षस्व रालमुत्थाय रम्यं नागप्रियागृहम् ॥१८८॥कन्यकाभिस्ताभिरपि हस्यमानः पदे पदे। व्यतिचक्राम
॥१५॥