________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥२२॥
सिद्धिसौधमशिश्रयत् ॥ २५७ ॥ भव्या ! ज्ञात्वा भुवनमहितं चन्द्रलेखाचरित्रं, सम्यक्त्वे सद्वतचयमहावृक्षमूलायमाने ॥ नो कर्तव्यो नरकजनको जीवितान्तेऽपि भनो । यस्माद् यूयं लभत सकलं शाश्वतं मोक्षसौख्यम् ॥ २५८ ॥ .
अथ प्रशस्तिःआसीच्छ्री विजयानन्दसूरि रिगुणाश्रयः । कीर्तिः स्वर्गमियति स्म यस्य स्नात्वाऽन्तिमाम्बुधौ॥१॥ श्रीमदमरविजयो मुनिर्निर्मलसंयमः । दक्षिणाशाविहारीति ख्यातस्तस्याऽन्तिषद्वरः ॥ २॥ तदीयक्रमणाम्भोजद्वयीषट्पदसत्रिभः । साहित्यसूरिरित्याश्चतुरविजयो मुनिः ॥ ३ ॥ दृष्ट्वा 'सम्यक्त्वसप्तत्यां निबद्धां प्राकृते हि सः । संस्कृतेऽरचयद् रम्यां सरलां च कथामिमाम् ॥ ४॥ विजयानन्दसूरीन्द्रपट्टपूर्वाद्रिभास्वतः। श्रीमद्विजयवल्लभसूरिवर्यस्य शासने॥५॥ विक्रमाद् द्विसहस्रैकवर्षे मासे शुचौ सिते। अष्टम्यां विक्रमपुरे भेजे पूर्ति मरुस्थले॥६॥ विजयानन्दसूरीणाममूच्छिष्यमतल्लिका । कक्षीकृतस्वात्मलक्ष्मीः श्रीलक्ष्मीविजयो मुनिः॥७॥ हंसनिर्मलसत्कीर्तिः श्रीहंसविजयो मुनिः । शिष्यस्तस्य शान्तमूर्तिरभवद् भवभीरुकः ॥ ८॥ स्फूर्जद्रत्नत्रयीसम्पत् श्रीसम्पद्विजयो मुनिः ।।
॥२२॥