SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥२२॥ सिद्धिसौधमशिश्रयत् ॥ २५७ ॥ भव्या ! ज्ञात्वा भुवनमहितं चन्द्रलेखाचरित्रं, सम्यक्त्वे सद्वतचयमहावृक्षमूलायमाने ॥ नो कर्तव्यो नरकजनको जीवितान्तेऽपि भनो । यस्माद् यूयं लभत सकलं शाश्वतं मोक्षसौख्यम् ॥ २५८ ॥ . अथ प्रशस्तिःआसीच्छ्री विजयानन्दसूरि रिगुणाश्रयः । कीर्तिः स्वर्गमियति स्म यस्य स्नात्वाऽन्तिमाम्बुधौ॥१॥ श्रीमदमरविजयो मुनिर्निर्मलसंयमः । दक्षिणाशाविहारीति ख्यातस्तस्याऽन्तिषद्वरः ॥ २॥ तदीयक्रमणाम्भोजद्वयीषट्पदसत्रिभः । साहित्यसूरिरित्याश्चतुरविजयो मुनिः ॥ ३ ॥ दृष्ट्वा 'सम्यक्त्वसप्तत्यां निबद्धां प्राकृते हि सः । संस्कृतेऽरचयद् रम्यां सरलां च कथामिमाम् ॥ ४॥ विजयानन्दसूरीन्द्रपट्टपूर्वाद्रिभास्वतः। श्रीमद्विजयवल्लभसूरिवर्यस्य शासने॥५॥ विक्रमाद् द्विसहस्रैकवर्षे मासे शुचौ सिते। अष्टम्यां विक्रमपुरे भेजे पूर्ति मरुस्थले॥६॥ विजयानन्दसूरीणाममूच्छिष्यमतल्लिका । कक्षीकृतस्वात्मलक्ष्मीः श्रीलक्ष्मीविजयो मुनिः॥७॥ हंसनिर्मलसत्कीर्तिः श्रीहंसविजयो मुनिः । शिष्यस्तस्य शान्तमूर्तिरभवद् भवभीरुकः ॥ ८॥ स्फूर्जद्रत्नत्रयीसम्पत् श्रीसम्पद्विजयो मुनिः ।। ॥२२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy