________________
श्रीजैन कथासंग्रहः
बीचम्पकमाला
था।
॥७६॥
तद्धेती दुरितक्षयाय परमे हेतौ परब्रह्मणः , सम्यग् ब्रह्मणि भावसाधुमहिते यत्नः समाधीयताम् ॥२८५॥ ॥ इति श्रीतपागच्छाधिराजश्रीविजयदानसूरीश्वरशिष्यमहोपाध्यायत्रीविमलहर्षगणिमहोपाध्याय
श्रीमुनिविमलगणिशिष्योपाध्यायत्रीभावविजयगणिविरचितायां चम्पकमालाकथायां चतुर्थः प्रस्तावः । तत्सम्पूर्ती च सम्पूर्णेयं चम्पकमालाकथा॥
॥अथ प्रशस्तिः ॥ तपगणनगगनरवीणां, श्रीविजयानन्दसूरिशक्राणाम् । राज्ये कथानकमिदं, भावविजयवाचकस्तेने॥१॥ सिद्धिगगनमुनिचन्द्रप्रमितेऽब्दे १७०८ विजयदशमिकासु तिथौ। विद्यापुरे वितेने, कथाममूं सोऽर्थितः प्राज्ञैः॥२॥ महासतीवृत्तमिदं वितन्वताऽयुक्तं यदुक्तं मयकाल्पबुद्धिना। मिथ्याऽस्तु तत्पापमपाग्रहस्य मे, सद्धिश्च तच्छोध्यमुदारबुद्धिभिः ॥३॥
॥७॥