________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६८॥
अथापवरकाकाराचन्दनस्थासकाहिताः । मजूषा माल्यसजुषः, सज्जयामास सार्थपः ॥ १९१॥ तास प्रत्येकमेकैकं, न्यस्य कृत्रिमगुह्यकम् । तास्ततः स्थगितद्वारा, भुजिष्यैरुदपाटयत् ॥१९२॥ सोऽथ ताः प्राभृतीचक्रेनीकं नीत्वाऽवनीशितुः । कृतावहित्थो' बोहित्थो, धियामित्थं जगौ च तम् ॥ १९३ ॥ स्वामिन् ! ये स्वामिनः प्रेष्ठाः, श्रेष्ठास्ते बटवासिनः। सन्मञ्जूषाजुषस्तोषजुषाऽऽनीता इमे मया॥१९४ ॥ एते ते देव ! सेवन्तां, सन्निधिं सन्निधेरिव। अभीष्टसृष्टिं कुर्वन्तु, बाहुदण्डा विधेरिव ॥१९५॥ कार्यावसर एवैषां, दर्शनं पूजनं तथा। कार्य कार्यविदार्येणान्यथा कुप्येयुरप्यमी॥१९६ ॥ श्रुत्वेति पार्थिवस्तुष्टः, स्माह सार्थेश ! सार्थकम् । मयि स्नेहमकार्षीस्त्वं, ददानोऽमून सुदुर्लभान् ॥ १९७ ॥ वाकायाभ्यां बहिर्वृत्त्या, स्नेहं सन्दर्शयन्ति ये। तेषां न सङ्ख्याऽन्तवृत्त्या, स्निग्धस्तु त्वादृशोऽल्पकः॥१९८॥ तव प्रेमान्तरङ्गंच, निरणैषमहं सखे!। उदारैरप्यदेयानामेषां वितरणाधुवम् ॥१९९॥ ततश्च-तिष्ठासुर्यद्यपीह त्वं, भावी स्वस्थानमोहतः । तथाऽप्येहि मया साकं, वत्स ! वत्सलचेतसा ॥ २००॥ गुणानुरक्ते सुव्यक्ते, स्नेहाभ्यक्ते च मे दृशौ। त्वदृर्शनस्य कान्तस्य, विश्लेषं न सहिष्यतः॥ २०१॥ को वेद स्यान्न वा जातु, भूयः सङ्गो वियोगिनाम् । दुरापोऽभीष्टसङ्गश्च, तद्वियुज्येत न प्रियैः॥ २०२॥ सार्थेश! तन्न १ आकारगोपनं
॥६॥