SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला कथा। कथासंग्रह: ॥६७॥ सार्थेशदत्तताम्बूलबीटकास्वादसुन्दरः॥१७९ ॥ अमात्ययक्षदत्तैः सन्माल्यभूषणचीवरैः। 'आतद्धजिव्यं धनिना, कृतिना कृतसत्कृतिः॥१८०॥ सार्थनाथं धरानाथः, सोपरोधमदोऽवदत् । देहि यक्षानमन्मह्यं, मित्र ! चित्रविधायिनः ॥ १८१॥ त्रिभिर्विशेषकम् ॥ एते यद्यपि दुर्देयाश्चिन्तामणिवदिष्टदाः। तथापि प्रार्थनामेनां, सखे! मा मे कृथा वृथा॥ १८२॥ सार्थवाहस्ततः स्माह, स्वामिन् ! किमिदमुच्यते ?। नान्यस्यापि वृथा कुर्वे, प्रार्थनां किं पुनः प्रभोः ? ॥१८३ ॥ शक्तिमानपि यो वाञ्छां, पूरक्षेत्रार्थिन: पुमान् । तरवोऽपि ततः श्रेष्ठा, यथाशक्त्युपकारिणः॥१८४॥ यद्वा सेवकसत्कं यत्, सर्व स्वामिन एव तत् । तत्स्वामिसत्का एवामी, तेनात्र प्रार्थनाऽपि का॥१८५ ॥ सेवकेन च सद्वस्तु, दातव्यं स्वामिनां स्वयम् । इत्यमून् दातुमेवाहं, भोक्तुमामन्त्रयं प्रभून् ॥ १८६ ॥ स्वामिना च स्वयममी, प्राषिता: प्रार्थितावहाः । एतद्वितरणोत्साहस्ततो मेऽवर्द्धताधिकम् ॥ १८७ ॥ उपयोगोऽप्यमीषां स्याद्यान् स्वामिनिकेतने । तत्कृतार्था भवन्त्वेते, त्वदिष्टादिष्टसाधनात् ॥ १८८ ॥ स्कन्धावारे वृषस्कन्धाधुना पादोऽवधार्यताम् । तत्रानेष्ये दुतं पश्चान्मजूषानिहितानमून् ॥ १८९ ॥ तेनैव मुदितोऽत्यर्थ, मुदितो भूधवस्ततः । अगच्छत् स्वच्छधी: सेनानिवेशं सपरिच्छदः ॥ १९० ॥ आ समन्तात्-तत्-तस्य-राज्ञः, भुजिष्य-किंकरः ॥६७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy