________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥६६॥
। तत्तदन्यगृहाच्छनद्वाराऽन्ये छन्नमार्पयन् ॥१६८॥ कल्पवृक्षानिवाध्यक्षांस्तांश्च पूरितकामितान् । यक्षान् वीक्ष्य क्षमानाथो, विस्मितो ध्यातवानिति॥१६९॥ अहो! धनी सभाग्योऽसौ, यस्यामी कामितप्रदाः । कुर्वन्ति शश्वदादेशं, गुह्यकाः किरा इव ॥१७॥भवेयुरीदृशा यस्य, त्रिदशा वशवर्तिनः । व्यर्थ किमर्थमायासं, सकुर्यात्पाचनादिना ॥१७१॥ यक्षा दौःस्येभहर्यक्षा, दक्षा: कामितपूरणे। एते स्युर्यदि मद्हे, तत्कृतार्थों भवाम्यहम् ॥ १७२ ॥ भोजनानन्तरं तस्मात् सार्थेशं नन्वमूनहम् । याचिष्ये स [दारोऽमून, दुर्देयानपि दास्यति॥१७३॥ एतेषां च प्रभावेण, यथेच्छ भोजयन् जनम् । संवर्धयिष्यामि यशः, पुण्यं चान्योपकारजम् ॥१७४ ॥ यद्वा राज्ञा मया याच्या, कथमस्य करिष्यते। महतामपि याञ्चा हि, लाघवाय हरेरिव ।। १७५॥ यदुक्तम् - बलिअन्भत्थणि महु महणु लहुई हुआ सोई। जइ इच्छह वडप्पणउं, देहु ममगउ कोइ॥१॥लोकोपकारिणी याञ्चा, यद्वा सद्धिरपीष्यते। मेघा लोकोपकाराय, याचन्ते किं न वारिधिम् ? ॥ १७६ ॥ घ्यायनिति तदेकान्तस्वान्तः कान्तः झितेस्ततः । न सम्यग् भोजनाऽऽस्वादमपि वेदयते स्म सः॥१७७ ॥ तद्ध्यानतत्परत्वाच्च, मन्त्रिशुद्धिं चिकीर्षिताम् । स नास्मार्षीत्परासक्ततायाः स्वीयानामिव ॥ १७८ ॥ अथ भुक्त्वा यथाकामं, विहिताऽऽचमनादरः ।
॥६६॥