SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥६३॥ ॥१२९ ॥ इतश्च-अस्थिचर्मावशेषाङ्गांस्तान् गर्त्तागतमन्त्रिणः । उपागत्याब्रवीदेवं, सार्थनाथः प्रियाधिया ॥ १३० ॥ भो धीसखा ! मदादेशं, कुरुध्वं यद्यसंशयम् । तदोद्धरामि वो गर्त्तात्, सद्धर्मो नरकादिव ॥ १३१ ॥ यदीषदपि मद्वाक्यवैपरीत्यं करिष्यथ । तदा भूयोऽपि गत्र्त्तेऽस्मिन्नेव क्षेप्स्यामि निश्चितम् ॥१३२॥ ते प्रोचि करिष्यामो न त्वदाज्ञाविपर्ययम् । गर्त्ताहुद्धर दुःखार्त्तानस्मानस्मात्तदुद्धर ।। १३३ ।। दयानदीन ! दीनेषु, दयामस्मासु धारय । तक्षेव दारु नो दुःखं, दारुणं द्राग् विदारय ।। १३४ ॥ सार्थपस्तांस्ततो गर्त्तादाकृष्य द्रागसिस्नपत् । रक्तचन्दनपङ्कौघैः सर्वाङ्गं विलिलेप च ।। १३५ ।। तान् यक्षानिव सद्यक्षकर्दमेन प्रपूज्य सः । पुष्पैर्माल्यैश्च विस्मेरैः प्राज्यैरानर्च बन्धुरैः ।। १३६ ।। ईषत्प्रकाशे देशेऽन्तर्गर्भगेहं निवेश्य तान् । रहो भोज्यादिसामग्री, सर्वां न्यास्थत्तदन्तिके ।। १३७ ।। अशिक्षयच्च तानेवं, पश्यत्स्वन्यजनेषु भोः ! | युष्माभिर्निर्निमेषाक्षैः, स्थातव्यं त्रिदशैरिव ।। १३८ ॥ भूमीजानौ च भुञ्जाने, दातव्यं द्राग् 'यथोदितम् । सर्व भोज्यादिवस्त्रादि, पश्चान्मोक्ष्यामि वः स्वयम् ।। १३९ ।। तत्सर्वं प्रतिपन्नेषु तेषु सार्थपतिः स्वयम् । उपागाद्भूपतिं तं च, प्रणम्येति व्यजिज्ञपत् ॥ १४० ॥ सम्पन्नयाऽऽब्यसम्पन्नः, सांप्रतं जक्षणक्षणः । तत्पुण्यीक्रियतां पादाववधार्य गृहं मम ॥ १४१ ॥ भूसुत्रामाऽपि सद्धामा तद्धामाऽगात् १ यथोचितम् इत्यपि । श्रीचम्पकमाला कथा । ॥६३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy