SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला __ कथा। ॥६२॥ पक्वान्नादिसामग्री, सर्वा छन्नासकारयत् । धामम्वन्येषु धनिनां, सर्वमीषत्करं खलु ॥ ११८ ॥ दध्यौ भूपस्तु तुष्टो नः, सिद्धं खलु समीहितम् । मयाऽऽगतेन गेहेऽस्य, मन्त्रिवार्ताऽपि लप्स्यते ॥११९॥ किं त्वेतत् कृतसामग्रीयोग्यं लात्वा परिच्छदम्। अदनायास्य सदने, गमनं मम युज्यते॥१२०॥ हर्षाद्यद्यप्यसौ भोक्तुं, ससैन्यं मां न्यमन्त्रयत् । सद्यस्तथाऽपि सामग्री, क्व स्यान्मत्सैन्यभोजिका?॥ १२१ ॥ प्रायो मितम्पचा एव, वाणिजाः स्युः स्वभावतः । तेषां चाल्पाऽपि सामग्री, बहीति प्रतिभासते ॥ १२२॥ तत्सामग्री समीक्ष्यैव, भोक्तुं नेष्ये परिच्छदम् । मा मां श्रितस्य तस्याभूज्जनेऽपभ्राजनाऽन्यथा॥१२३॥ विमृश्येति विशामीशस्तत्सौधेऽसौ धियांनिधिः। प्रातः प्रैषीच्चरं सोऽपि, गत्वाऽऽयातोऽब्रवीदिति ॥१२४॥ दिवीव देव! तद्नेहे, नैव धूमोऽपि दृश्यते। 'पाकाहा॑ऽपि प्रभो! पाकसामग्री तत्र नास्ति तत् ॥ १२५॥ तन्निशम्य क्षमानाथः, क्षमावानप्यभूत्तदा। स्वं विप्रतारितं मन्यमानो मन्युभराकुलः॥१२६ ॥ दथ्यौ च मां निमन्त्र्यापि, यो निश्चिन्तोऽवतिष्ठते। पातकी वातकी सोऽस्ति, मन्दो वा ग्रहिलोऽथवा ॥ १२७ ॥ अथ सौधेऽस्य यास्यामि, भोक्तुं भूरिपरिच्छदः । प्रेक्षे विनाऽपि सामग्री, कर्ताऽऽतिथ्यं कथं 'मम ? ॥१२८ ॥ इति तत्रापदोषेऽपि, दोषं भूपो व्यभावयत् । तत्त्वाज्ञाने हि विज्ञानामप्यहो ! धीविपर्ययः १बालकयोग्यपि। २ स मे इत्यपि। ॥६ ॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy