________________
श्रीजैन कथासंग्रहः
॥६९॥
युग्मम् ॥ लघु स्याल्लङ्घनगुणं भोजनं खल्वितीव सा । तेषां स्मरज्वरात्तानां तादृग्भोजनमार्पयत् ॥ १०६ ॥ तदपि प्राप्य ते जातजीविताऽऽशा मुदं दधुः । अभ्यधुश्चाऽहो ! दयाऽस्या, यद्दस्यूनपि पाति नः ।। १०७ । अस्याः शीलधनं कीर्तिदेहं चापजिहीर्षवः । द्वेधाऽपि 'दस्यवो जाता, दोषजाताऽन्विता वयम् ॥ १०८ ॥ तेषामपीयमस्माकं जीवनोपायकारिणी । सतीमतल्लिका प्रष्ठा, दयालुष्वपि दृश्यते ।। १०९ ।। इत्यादिवादिनस्तेऽहर्निशं चिन्ताविधायिनः । स्वस्थान एव विण्मूत्रत्यागिनः पशुजातिवत् ।। ११० ।। कायक्लेशावमोदर्यरसत्यागादिकं तपः । तप्यमाना विना भावं, द्वेषा निर्बलविग्रहाः ।। १११ ॥ दीनश्वान इवान्यशाविवशा विरसाशिनः । षट्पल्यतुल्यान् षण्मासांस्ते कष्टादत्यवाहयन् ॥ ११२ ॥ त्रिभिर्विशेषकम् ॥ इतश्च कञ्चनारातिं जित्वा विक्रमपार्थिवः । चम्पामुपागाद्गगनधूलिसार्थेशसंयुतः ॥ ११३ ॥ ततो राजाऽऽज्ञया सार्थनाथः स्वगृहमागमत् । तस्मै सा सत्यवक् सत्यां वार्तां तां मन्त्रिगोचराम् ।। ११४ ।। तदा तच्छीलवीक्षार्थ, प्रेषितांस्तत्र मन्त्रिणः । स्मृत्वा नृपोऽपि तच्छुद्धयै, यावदासीत् समुत्सुकः ।। ११५ ।। तावत्सार्थपतिर्नुत्रः, सुधिया स्वीयकान्तया । ससैन्यं विक्रमनृपं, भोजनाय न्यमन्त्रयत् ।। ११६ ॥ नृपोऽप्यत्याग्रहात्तस्य तद्वचः प्रत्यपद्यत । सार्थेशोऽगात्ततो धाम, तत्सामग्रीसमुद्यतः ।। ११७ ।।
१ शीलधनापजिहीर्षातो दस्यवचौराः कीर्त्तिशरीरापजिहीर्षातो दस्यवो रिपवः इति द्विधा दस्यवः ॥
श्रीचम्पकमाला
कथा ।
॥६९॥