SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला श्रीजैन कथासंग्रहः कंथा। ॥५९॥ बिभ्रन्मारामदीपकम् ॥८१॥ एलादिमिश्रताम्बूलसौरभभ्राजिताननः । कर्पूरमिश्रघुसृणपङ्कपडिलभूधनः ॥८२॥ माल्यगर्भितधम्मिल्लजितोपात्तेन्दुराहुकः । पुष्पधन्वधनुष्कल्पपुष्पमालाऽऽन्यकन्धरः ॥ ८३॥ कस्तूरीपछिलश्मश्रुधूपधूपितचीवरः । रात्रौ तस्यामगात्तस्याः, सन्निधौ धीसखोऽपि सः॥ ८४॥ चतुर्भिः कलापकम् ।। महत्या प्रतिपत्त्या, तं, सा सती समुपाचरत् । अन्तर्गुञ्जेव नीरागा, श्रयन्ती रक्ततां बहिः ॥८५॥ प्रोन्मादसचिवः सोऽथ, सचिवः करसज्ञया। प्रदर्शिते तया सद्यस्तत्रापवरकेऽविशत् ॥८६॥ उपाविशच्च पह, यावत्तत्रासमीक्ष्य सः । तावत्तदाशया साकं, तुत्रुटुस्तल्पतन्तवः ॥ ८७ ॥ अन्तर्गत निराधारः, पापात्मा सोऽपतत्ततः । प्रस्तावयन्निव श्वभ्रपातमायतिभाविनम् ॥८८॥ इतश-परेऽपि विक्रमादित्यामात्यास्तत्रागता: पुरा। सहस्रदेवश्रीसारबुद्धिसारावयास्त्रयः॥ ८॥ तस्यै पृथग् दूतिकास्यैरावेदितनिजाशयाः । तस्या एव निशोऽन्यान्ययामेष्वाकारितास्तया ॥ १० ॥ तथैवोपागतास्तत्र, तल्पे तत्रोपवेशनात् । तस्मिन्नेवापतन् गर्ते, मिथः सङ्गोत्सुका इव ॥ ९१ ॥ त्रिभिर्विशेषकम्॥ गर्तातलं सिकतिलं, वीक्ष्य तेऽथ जगुर्मिथः। अहो! दयालुरेषा यन्नाङ्गभङ्गं चकार नः ॥१२॥गर्ताप्रपातनं त्वेतत्तया शिक्षाकृते कृतम्। सन्तोऽप्यापातकटुकं, कुर्वन्त्यायतिसुन्दरम् ॥१३॥ १संयुक्तः॥ ॥५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy