SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५८॥ मे कथम् ? । इति चिन्तामहार्षीस्त्वं, मम वात्येव रेणुकाम् ॥ ६९ ॥ कुल्ययेव त्वयाऽऽनीतं, तत्सन्देशामृतं मम । चित्तालवालगं चक्रे, कामितनुं सपल्लवम् ॥ ७० ॥ किं बहूक्तेन हे दूति !, समयप्राप्तया त्वया । निर्वापिताऽहमत्यर्थं, कादम्बिन्येव मेदिनी ॥ ७१ ॥ तत्सङ्गायाथ सोत्साहं, मनो मे जायते भृशम् । कुतश्चित् कारणात् किञ्चित्, विलम्बिष्ये तथाऽप्यहम् ।। ७२ ।। तत्तुर्येऽह्नि दिनादस्माद्वपुर्मात्रपरिच्छदम् । यामिन्याः प्रथमे यामे, प्रेषयेस्तं मनोरमम् ॥ ७३ ॥ किं च वित्तं विना भोगसामग्री नैव जायते। तद्दानं च विनोदार्यपरीक्षाऽप्यस्य नो भवेत् ॥ ७४ ॥ दानं च प्रोच्यते प्राज्ञैः प्रीतेर्लक्षणमादिमम् । तदग्रतः स्वर्णलक्षं, प्रेषयत्वेष धीसखः ॥ ७५ ॥ याहि भद्रे ! समाख्याहि, तस्मै मद्दत्तमुत्तरम् । आश्वासय भृशोत्कण्ठं, तं च मत्सङ्गमाशया ॥ ७६ ॥ इत्थं निशम्य सा सम्यक्, तस्मै स्माह तदुत्तरम् । कृतार्थमानी तच्छ्रुत्वा, सचिवः सोऽप्यमोदत ।। ७७ ।। धान्यन्यासमिषेणाथ, सा सती वसतिर्धियाम् । उण्डामकारयद्गत्त, गृहापवरके क्वचित् ॥ ७८ ॥ गर्त्ताधस्तनभूमिं च सा कृपालुरकारयत् । सत्करेणुगतिः सिन्धुसत्करेणूत्करैर्मृदुम् ।। ७९ ।। गर्त्तास्योपरि तल्पं च, कल्पयामास सा सुधीः । विरलैस्तन्तुभिर्व्यूतं, स्वच्छांशुकसमावृतम् ॥ ८० ॥ अथो यथोक्तसमये, प्रेषितस्वर्णलक्षकः । 'कुपथ्यकल्पं नेपथ्यं,. १ कन्दर्परोगदीपकत्वान्नेपथ्यस्य कुपथ्यस्य पथ्यकल्पता । श्रीचम्पकमाला कथा । ॥५८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy