SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीचम्पकमाला कथा। कथासंग्रहः ॥५७॥ स्वाकूते, ज्ञापिते न प्रतिक्रिया। तद्योग्या जायत इति, मायामायामयेऽधुना ॥ ५७ ॥ महात्मानोऽपि कुर्वन्ति, मायां कार्यविशेषतः । निग्रहीतुं बलिं विष्णु भूत् किं नाम वामनः ? ॥५८ ॥ध्यात्वेति दृतिकामेवं, सा जगाद मनस्विनी । साधु साधु समायासीतिके ! त्वं मदन्तिके ॥ ५९ ॥ स्यान्मन्मथव्यथाऽऽक्रान्तं, प्रायो हि तरुणीमनः । तां व्यथां हन्तुमगदंकारस्तु प्रिय एव हि ॥६॥ तद्वियोगेचसा पीडा, पीडयन्ती मनोभृशम्। सन्तापव्यापमतनोत्तनावपि ममातनुम् ॥६१॥ कुलाचार च लज्जांच, प्रोल्लायितुमक्षमा। ग्रीष्मार्कतापं वल्लीव, चिरं सेहे तमप्यहम्॥६२॥ मृगीव दावतापात, शफरीवोष्णरेणुगा। अन्यदा च स्मरार्ताऽहमतीवव्याकुलाऽभवम् ।। ६३ ॥ अचिन्तयं च कान्तो मे, लोभाऽऽवेशवशंवदः । देशान्तरेषु भ्रमति, न त्वायाति निजं गृहम् ॥ ६४ ॥ मदनातिर्मया चेयं, वडवानलदुस्सहा । कियच्चिरं विसोढव्या, जीवितव्ययकारिणी ॥ ६५ ॥ तत्कञ्चित् कामुकधनं, नानागुणसुधाञ्चितम् । गवेषयामि विषयानलशान्तिविधायिनम् ॥ ६६ ॥ एवमुत्कण्ठिता यावदहं चेतस्यचिन्तयम् । तावत् पुण्यैरिवाऽऽकृष्टा, त्वमागा मम सन्निधौ॥ ६७॥ शुभवत्या भवत्या चागामिनं कामिनं नरम् । उदीर्यानुगृहीताऽहं, सज्जीवातुमिवातुरा ॥ ६८ ॥ को युवा सद्गुणो भावी, सङ्गन्ता सच र विस्तारयामि। २ वैधः । ३ सति। ॥५७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy