________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥५६॥
क्रमाऽऽयातत्वमोहाद्वा, दुष्टत्वाज्ञानतोऽथवा । राज्ञा बुद्ध्यादिमत्वाद्वा, कृतो भाव्येष धीसखः ॥४५॥ सोऽयं मन्त्री कथमभूहुरतोऽपिरतो मयि? मामश्रौषीत् कुतो वाऽयं ? स्थितां देशे दवीयसि ॥४६॥ रूपवत्यो युवत्यः स्युः, सर्वत्राप्युन्मदाः सदा। ता विहाय स्वदेशस्थाः, कथं वाऽत्रायमागमत् ?॥४७॥ यदि वा व्यवसायार्थ, भर्ताऽवन्त्यां गतोऽस्ति मे। सच स्वच्छमतिर्गच्छन्, भावी नित्यं नृपान्तिक॥४८॥ तदा चम्पकमालां तां, प्रेक्ष्य मत्प्रियपार्श्वगाम् । तस्याश्चाम्लानतां नित्यं, ज्ञात्वा मच्छीलहेतुकाम् ॥४९॥ तद्विध्वंसचिकीर्नूनमायातोऽसौ भविष्यति । गुणिनां हि गुणान् हन्तुं, खल: स्यात् खलु सादरः॥५०॥ युग्मम् ॥ विधुन्तुदो विधुज्योत्स्नां, दुर्वायुर्वा घनोन्नतिम् । यथा न सहते तद्वत्, साधुकीर्तिमसज्जनः ॥५१॥ तदेष द्वेषवानार्येऽनार्यबुद्धिः स्वभावतः । प्रजिघांसतु मच्छीलं, न तु तद्धन्तुमीश्वरः॥५२॥ जिघृक्षुस्तक्षकशिरोमणिं न स्यात् सुखी यथा। तथा मच्छीलविध्वंसं, चिकीर्षुरयमप्यहो!॥ ५३॥ सम्यक् प्रतिवचस्तस्य, ततो दूतिकयाऽनया। ज्ञापयामि तदाकूतामयप्रशमनौषधम् ॥५४॥ यद्वाऽसौ यौवनधनाधिकाराख्यत्रिदोषवान् । तदुत्थदर्पकोन्मादात्, प्रलपनसमञ्जसम्॥५५॥ विवेकपाटवं गन्ता, न हि मद्वाक्यभेषजैः । सन्निपातो हि नऽपैति, चिकित्सां परुषां विना ॥ ५६ ॥ युग्मम् ॥ यतःसम्पनीपद्यते यावत्रानुरूपा प्रतिक्रिया। तावत्रैवामयो याति, प्रतिपक्ष इव क्षयम् ॥१॥ यथास्थिते च
॥५६॥