SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥५५॥ 'पूर्वदेवाचार्य इवोग्रधीः । क्रमाऽऽयातो विक्रमार्कभूभर्तुः-सचिवाग्रणीः॥ ३३॥ मात् कुतश्चिदाकर्ण्य, त्वदीयान् प्रगुणान् गुणान् । त्वत्सञ्जिगंसयैवात्राऽऽगतोऽस्ति भृशमुत्सुकः ॥ ३४ ॥ त्रिभिर्विशेषकम् ॥ प्राहिणोच्च स एवात्र, स्वाशयाऽऽवेदनाय माम्। न हाशयं गोपयितुमुग्ररागः प्रभूयते॥३५॥ तत्स्वानुरूपं रूपाद्यैरभिरूपे ! भजस्व तम् । प्राज्यपुण्योदयप्राप्यं, भाग्यसौभाग्यशेवधिम् ॥ ३६ ॥ तेनाखिलवशाचित्तहारिणा सौख्यकारिणा । न याऽक्रीडन्मुधा तस्या, यौवनं वनपुष्पवत् ॥ ३७॥ तत्तमाकारय क्षिप्रमवधारय मदिरम् । मावधीरय तं चिन्तामणिवचिन्तितप्रदम् ॥ ३८ ॥ व्यक्ते ! वक्तव्यमुक्तं ते, वद सधस्तदुत्तरम् । स्वहृद्रोहस्थसद्भावप्रादुर्भावनदीपकम् ॥ ३९ ॥ इत्युदित्वा क्षणं मौनमुद्रां सा दूतिका दधौ । तदीयमुत्तरं श्रोतुं, सावधाना समुत्सुका ॥ ४० ॥ सती मतिमती साऽथ, तन्निशम्येत्यचिन्तयत् । व्यसनाऽऽसक्तमुन्मत्तं, घिग् धिक् तं धीसखाधमम् ॥ ४१ ॥ न्यायिना विक्रमार्केण, किमसौ धीसखः कृतः ?। धिक्कारयोग्यो व्यसनी, नाऽधिकारित्वमर्हति ॥४२॥न्यस्तो भाति सदाचारेऽधिकारो नापरे नरे । निहितो राजति स्वर्णे, मणिवपुणि नो पुनः ॥ ४३ ॥ नरं . ज्ञात्वाऽप्यनाचारं, य: करोत्यधिकारिणम् । स नाथोऽपि सदाचारः, कथं श्रद्धीयते बुधैः ?॥४॥ १पूर्वदेवा दैत्यास्तेवामाचार्यः शुक्राचार्य इत्यर्थः । २ मा वगणय। ॥५५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy