________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥५४॥
सा गत्वा तां रहोऽवादीदहो'! रूपमहो! रमे! त्वत्प्रियाङ्गद्रव्यशालास्वस्ति स्वस्ति मनोरमे!॥२१॥ कियान् कालोऽभवद्बाले!, कान्तस्य प्रोषितस्य ते। कथं च सहसे हन्त!, विरहं तस्य दुस्सहम् ?॥२२॥ विना रमणमन्याउपि, रमणी स्यात् सुदुःखिता। किं पुनस्त्वादृशी दक्षग्रामणीनवयौवना ? ॥ २३ ॥ भर्ताऽपि तव लुब्धानां, धुरीणः खलु दृश्यते। त्वां हित्वाऽन्यत्र वित्तार्थ, यः श्रीमानप्यट्यते ॥ २४ ॥ हरेः प्रियायामासक्तः, सम्भ्रमी बम्भ्रमीति यः । अन्याऽऽसक्ते शठे तत्र, प्रतिबन्धस्तवास्तु कः ? ॥ २५॥ यौवनोरुवने कामकण्ठीरवसुभैरवे । योऽगाद्विहाय त्वां बालां, ततोऽन्यः कोऽस्तु निर्दयः ॥ २६ ॥ तत्तदेकाग्रतां हित्वा, हितां शृणु गिरं मम । स्वैरं रमस्व सत्पुंसा, मनोऽभीष्टेन केनचित् ॥ २७ ॥ भोगान् विना हि विफलं, तारुण्यं कासपुष्पवत् । भोगाङ्गं चाऽऽदिमं स्त्रीणां, पुमान् पुंसामिवाङ्गना ॥२८॥न च वाच्यं पुमान् श्रेष्ठगुणवान् क्व भवेत् ? इति। यद्भावी सद्गुणः कोऽपि, पुंस्वपि त्वं वशास्विव ॥२९॥ गुणी च गुणसङ्गाय, स्वत एव प्रवर्त्तते । प्रवर्तयति हंसं हि, कोऽब्जिनीसङ्गहेतवे ॥ ३० ॥ दूरतोऽपि समभ्येति, गुणिसङ्गकृते गुणी । त्वत्सङ्गाय यथाऽवन्त्या, इहाऽऽयातोऽस्ति धीसखः ॥ ३१ ॥ स हि सर्वकलाशाली, शालीनो रूपमन्मथः । दक्षः प्रियंवदःस्थूललक्षः सल्लक्षशेखरः ॥३२॥ मूलदेवाभिधः १अहो इति संबोधने। २ सिंह-॥
॥५४॥