SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥५३॥ तादृशस्य च शीलस्य, स्यान्माहात्म्यमिदं कथम् ? । न शुद्धवस्तुकार्यं हि तदाभासेन जायते ॥ ९ ॥ या च तत्कान्तमौलिस्थमाल्यस्याऽम्लानिरीक्षिता । सा न शीलोद्भवा किं तु, देवताद्यनुभावजा ॥ १० ॥ तन्मायिन्या तया नूनं वञ्चितोऽस्ति धवो निजः । मायां कृत्वा दृढामिन्द्रजालिक्येवाखिलो जनः ॥ ११ ॥ तन्निशम्य जगौ राजा, मा वादिष्टेति यूयकम् । बहुरत्ना हि भूस्तेन, शुद्धशीलाऽपि सा भवेत् ॥ १२ ॥ कालेऽत्रापि सुशीलः स्याद्यथा कश्चिन्नरेष्वपि । * तथाऽजिह्मब्रह्मचर्या, न स्यात् स्त्रीष्वपि काऽपि किम् ? ॥ १३ ॥ सत्यप्येवं यदि स्याद्वस्तस्याः साधुत्वसंशयः । तत्किं यूयं तत्परीक्षां, कुरुध्वं न विचक्षणाः ! ॥१४ ॥ परीक्षामन्तरेण स्यान्न हि सत्तत्त्वनिर्णयः । विना परीक्षां निष्कोऽपिं नाश्रुते निष्कलङ्कताम् ? ॥ १५ ॥ इत्युक्ता भुभूजा दुष्टधीसखास्तेऽपि धीसखाः । प्रमाणमादेश इति, प्रोच्य स्वस्वगृहानगुः ॥ १६ ॥ त्यक्तक्रमाः कृतान्यायप्रक्रमा वक्रमानसाः । ते क्रमाद्विक्रमादित्यपुर्या निर्याय मन्त्रिणः ॥ १७ ॥ चम्पायामस्तकम्पायां, जग्मुरेकैकशः पृथक् । स्वैरं स्वल्परीवारास्तत्रास्थुश्च पृथक् पृथक् ।। १८ ।। युग्मम् ॥ तेष्वाद्यो मूलदेवाख्यस्तस्थौ दम्भाम्बुनीरधिः । वृद्धाया धाम्नि कस्याश्चित्, सार्थेशगृहपार्श्वगे ॥ १९ ॥ दूतीमावर्जयच्चैकां, कुलटाकुलदेवताम् । पार्श्वे चम्पकमालायास्तां प्रैषीच्चानुशिष्य सः ॥२०॥ * सरळ १ दीनारोऽपि । श्रीचम्पकमाला कथा । ॥५३॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy