________________
श्रीजैन कथासंग्रहः
॥५२॥
श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याश्रीभावविजयगणिविरचितायां चम्पकमालाकथायां तृतीयः प्रस्तावः ॥
अथ चतुर्थ: प्रस्तव:
अथ राजसभावस्थो, राजा विधिरिवान्यदा । पुरो हास्यगृहास्यानां चतुर्णां नर्ममन्त्रिणाम् ॥१॥ सत्याश्चम्पकमालायाः, शीलमाहात्म्यमद्भुतम् । अवर्णल्लब्धवर्णविश्रुतश्रीर्यथाश्रुतम् ॥ २ ॥ युग्मम् ॥ तन्निशम्य समुद्भूताश्चर्यास्तेऽप्यवदन् विभो ! । इदं हि भाव्यसंभाव्य 'माभाव्यं तन्न सूनृतम् ॥ ३ ॥ प्रोक्तो यद्यपि शास्त्रेषु, सर्वसिद्धिविधायिनः । ब्रह्मणो ब्रह्मण इव, प्रभावो भुवनाद्भुतः ॥ ४ ॥ तथाऽप्यैदंयुगीनानां, मीनानां विषयाम्भसः । नृणां स्त्रीणां च तच्छुद्धं, क्व भवेच्चलचेतसाम् ? ॥ ५ ॥ नरः स्यात् त्वादृशः कश्चिच्छुद्धशीलोऽपि शुद्धधीः । स्त्रियस्तु प्रियकौटिल्याः, शुद्धशीलधराः कथम् ? ॥६॥ वाक्कायाभ्यां काऽपि शीलं, लज्जाद्यैः शीलयेदपि । चेतः शुद्धया तु तत्स्त्रीणां, दुष्पालं तच्चलत्वतः ॥ ७ ॥ मनो विना च यन्नाथ !, शीलस्य परिशीलनम् । मन्दुराबद्धाश्वशीलतुलामेव प्रयाति तत् ॥ ८ ॥ १ चिन्तनीयम् ।
श्रीचम्पकमाला
कथा ।
॥५२॥