________________
श्रीजैन कथासग्रहः
श्रीचम्पकमाला
कथा।
॥५१॥
यन्मुक्तापि पितामहप्रहरके छेकेयमिन्दोः करैर्निर्यात्यंशुकरैरुपैति च नमो नारीचरित्राय तत् ॥१॥
इत्थं च चेष्टमानेयमाऽऽनेयं मनसि व्यधात् । अश्रद्धेयमपि प्राज्ञवाक्यं तद्वाङ्मयानुगम् ।। २४२॥ तद् यदर्थ स्वीकृतेयं, सोऽर्थः सिद्धिं बभाज मे। कृतकृत्योऽपि नीरागां, भजाम्येनामथो कथम् ?॥२४३।। स्यादस्यामनुरागोऽपि, नीरागायां कथं मम ? । नारी विरक्ता नारीणां, सादृश्यं ह्यतिवर्त्तते ? ॥ २४४ ॥ न'वां नवाङ्गभाजी निर्विषयौ विषयौ रुषाम् । कुर्वे व्यङ्गो निर्धनौ वा, सत्यसन्धतया ध्रुवम् ॥ २४५ ॥ तन्मा भैषीरिमामङ्गीकृत्य याहि स्वमन्दिरम् । युवां युवाना माऽकाष्ट, भूयो विप्लवमीदृशम् ॥ २४६ ॥ इहायासि पथा येन, रहस्तेन नयेरिमाम् । यथा जनो न जानाति, तवान्यायं क्षमा च मे ॥ २४७ ॥ तदिष्टवैद्यादिष्टाभं, मन्यमानो विभोर्वचः । स्वीचक्रे तां धनी वामदेवो देवापगामिव ॥ २४८ ॥क्षमयित्वा ततः स्वागो, नत्वा भूमीशमीश्वरः । ययौ सुरङ्गामार्गेण, स्वं वेश्म स्वैरिणीयुतः॥ २४९॥ सर्वसहागुणधरः क्षमया सुपर्वसर्वसहाधरदृढस्थितिरस्तगर्वः । सर्वसहाभृदपि वेश्म निजं जुजोष, सर्व सहायमिव विश्वजनं तुतोष ॥२५॥
__॥इति श्रीतपागच्छाधिराजश्रीविजयदानसूरीश्वरशिष्यमहोपाध्याय१प्राणव्यपरोपणेन युवाम् । २ महादेव ।
॥५१॥