SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः ॥५०॥ सेवते दुर्नयं कथम् ? । करोपात्तप्रदीपोऽपि, कूपे पतति किं सुदृक् ? ॥ २३२ ॥ विज्ञानां खलु विज्ञानं, तदेव हि फलेग्रहि । येन द्विपोऽङ्कुशेनेवोन्मत्तः स्वात्माऽनुशिष्यते ॥ २३३ ॥ अथ रागवशाच्चेत्त्वं, जानन्नप्यकरोरिदम् । रागाऽऽविष्टो हि शिष्टोऽपि, कार्याऽकार्यं न वीक्षते ॥ २३४ ॥ तदेमां स्वीकुरु मया, प्रदत्तां स्वानुरागिणीम् । रक्तीकृतजनत्यागस्त्वादृशां न हि युज्यते ।। २३५ ॥ किञ्च यथाऽदायि तदिष्टाय, त्वया स्वदयिता मृता । तथैवैतदभीष्टाय, तुभ्यमेतां ददाम्यहम् ॥ २३६ ॥ ददे विरहदुःखं हि, युवयोर्नवयोः कथम् । सर्वस्यापीष्टविरहो, यद्वह्निरिव दुःसहः ।। २३७ ॥ अन्यच्च प्राज्ञैः स्त्रीचरितं ज्ञानामपि दुर्बोधमीरितम् । इमामहं पर्यणयं तत्परीक्षाकृते कृतिन् ! ।। २३८ ॥ दास्याम्युपपतेरेव यद्यसौ भाविनीत्वरी' । इत्यन्तर्निश्चिकायाऽहं स्वीकुर्वन्नप्यमूं तदा ।। २३९ ॥ अत्रैकस्तम्भसौधे चापरेभ्यो रक्षितुं न्यधाम् । एतदिच्छापूरणेनान्वहं च सुखिनीं व्यधाम् ॥ २४० ।। तथाऽपि तद्विज्ञवचः सत्यीकर्तुमिवासकौं । स्वैरं प्रावर्ततं न्यस्ता, रमेव हरिणाऽम्बुजे ।। २४१ ॥ उक्तं च कल्लोलैः सह पांसुखेलनतया लोलेयमित्याशयादेकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा १ इत्वरी व्यभिचारिणी । श्रीचम्पकमाला कथा । ॥५०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy