SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४९॥ सद्योद्योगादिव साधुता ॥ २२० ॥ तन्निशम्य समुद्भूताश्चर्य: स्वीकृत्य तद्रिरम् । हस्तेकृत्य प्रशस्तेऽह्नि, तामहं समहामहम् ॥ २२९ ॥ तत्तातदत्तं चादाय, यौतकं कृतकौतुकम् । जगामाहं निजं धाम, सोल्लासः सपरिच्छदः ॥ २२२ ॥ युग्मम् । सा स्वामिन्! दयितादत्ता, मालेयं मौलिगा मम । अस्था मदन्तिकस्थाया, जज्ञे द्वादशवत्सरी ।। २२३ ।। तच्छीलस्य प्रभावाच्च, देवस्येवानुभावतः । न शुष्यति म्लायति वा, मालिकेयमिलापते ! ॥ २२४ ॥ किञ्च शीलानुभावात् सीताया, यथाग्निर्जलतां ययौ । छिन्नौ करौ कलावत्या, यथा जाती पुनर्नवौ ।। २२५ ।। यथा सुदर्शनस्यासीत्, शूलिका सिंहविष्टरः । दवदन्त्याविरकरोत्, शुष्कनद्यां यथोदकम् ।। २२६ ॥ पत्ये दत्तं शीलवत्या, स्मेरमब्जं यथाऽभवत् । सुभद्रा चालनिकया, पयः कूपाद्यथाऽकृषत् ।। २२७ ।। तथा तदर्पिता तस्याः, शीललीलायितादियम् । त्वत्कीर्त्तिरिव सुस्फूर्त्तिर्माला म्लायति न क्वचित् ॥ २२८ ॥ शीलस्याहो ! प्रभावोऽयं, प्रभो ! वाचामगोचरः । यद्वचो नातिवर्तन्ते, 'तद्वतोऽचेतना अपि ॥ २२९ ॥ अम्लानिहेतुर्मालाया, मयोक्तोऽयं यथातथः । अनुकूलं च सत्यं च वाच्यं हि स्वामिनां पुरः ।। २३० ।। ततः स्माह नृपः स्मित्वा, शीलमाहात्म्यमीदृशम् । यदि वेत्सि तदा कार्षीः, किमेतदसमञ्जसम् ॥ २३९ ॥ एवं विज्ञानयुक्तोऽपि, १ विवाहकाले लब्धधनम् ।। २ शीलवतः । श्रीचम्पकमाला कथा । ॥४९॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy