SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४८॥ ततोऽहमूचे 'त्वज्जामिस्वभावज्ञः कथं शुभे !। त्वां स्वीकुर्वे तत्समैवायतौ' त्वमपि भाविनी । २१० ॥ साऽवादीन्नायमेकान्तो, यद्भगिन्योऽखिला अपि । समस्वभावाः स्युः सर्वे सोदरा वा धियांनिधे ! ॥ २१९ ॥ यदुक्तम् एकोदरसमुत्पन्ना, एकनक्षत्रसम्भवाः । न भवन्ति समाचारा, यथा बदरिकण्टकाः ॥ १ ॥ किञ्च फलप्रसूनपत्राणां, नरवारणवाजिनाम् । उपलोत्पलमुख्यानामप्येकस्थानजन्मनाम् ॥ २१२ ॥ यद्यर्थानां मिथोऽन्येषामप्यन्यान्यस्वरूपता । दृश्यते तर्हि सा न स्यात्, कथं स्त्रीणामपि प्रभो ! ॥ २१३ ॥ युग्मम् । गुणप्रवासात् संवासात्, तस्या वा दुष्टचेष्टिता । भवता नो शुभवता, शङ्कनीया कनीयसी ।। २१४ ।। यद्दुष्टसंस्तवेनापि, सन्तो नो यान्ति दुष्टताम् । आजनेर्भोगियोगेऽपि तत्स्वभावो मणिर्नहि ।। २१५ ।। करिष्येऽहं तत्स्वभावं, तत्स्वसाऽपि स्वसान्न तत् । को नाम कूपपतितं, निजं धीमाननुव्रजेत् ? ॥ २१६ ॥ दृष्ट्वा दोषं तदेकस्या, नान्या हातुं तवोचिता । विदग्ध ! दुग्धदग्धो हि, मुग्ध एव दधि त्यजेत् ॥ २९७ ॥ यद्वा किं भृशमुक्तेन व्रीडामुक्तेन मेऽमुना ? । त्वत्कण्ठन्यस्तमालैव, मच्छीलं ज्ञापयत्वसौ ॥ २१८ ।। यावत् कुर्यामहं सम्यक्, शीलस्य परिशीलनम् । तावत्सद्यस्कपुष्पेव, मा लासीन् मालिकाऽप्यसौ ।। २१९ ॥ यदा तु शीलमालिन्यं कुर्वीय मनसाऽप्यहम् । तदा म्लायत्वसौ १ त्वद्भगिनी- । २ उत्तरकाले ॥ श्रीचम्पकमाला कथा | ॥४८॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy