________________
श्रीजैन
श्रीचम्पकमाला
कथा।
कथासंग्रहः
OOO
॥४७॥
सहस्व मे । प्रविशान्तर्विशांचेतोहरे ! किमिह रे ! स्थिता ॥ १९८ ॥ तेनेत्युक्ताऽपि सा यावत्रागतान्तर्गतासुका । एोहीति वदस्तावदाचकर्ष स तत्पटम् ॥ १९९ ॥ ततः पपात सा पृथ्व्यां, निश्चेष्टा काष्ठमूर्तिवत् । विपत्रां सोऽथ तां वीक्ष्य, 'वीक्षापन्नोऽभवद्धशम् ॥ २०० ॥ असौ ममार मारार्ता, बाला व्यालादिताऽथवा। सगद्गदं वदन्ने सोऽन्तह निनाय ताम् ॥ २०१॥ गा विधाय तां तत्र, निधाय च निधानवत् । सुनियूंढचिरारूढप्रेमा गूढं रुरोद सः ॥ २०२ ॥ तत्सर्व प्रेक्ष्य तद्वृत्तं, निवृत्तोऽहं गतो गृहम् । मित्रायावेदयं सोऽपि, तत्पित्रे तन्न्यवेदयत् ॥ २०३ ॥ तद्वृत्तान्तेन तेनान्तस्तत्तातस्तान्तमानसः । अप्रकाश्यमधादुग्रं, दुःख'मौर्वमिवार्णवः ॥ २०४ ॥ वार्ताऽसावार्त्तताहेतुस्तद्रेहे प्रासरत्तदा । तिष्ठेच्छन्ना न वै दुष्टा, वार्ता लशुनगन्धवत् ।। २०५ ॥ चिन्तार्तानामवस्थातुं, ममैषां धाम्नि नोचितम् । इत्यहं यावदचलं, निर्विण्ण: स्वपुरी प्रति ॥ २०६॥ तावच्चम्पकमालाहाऽपरा मत्प्रेयसीस्वसा। मां वरीतुं करोपात्तचम्पकम्रगुपागमत् ॥ २०७॥ कटाक्षमालां न्यस्यन्ती, मदास्ये प्राज्यसम्मदात् । तां मालिकां सा सोत्कण्ठा, मत्कण्ठे क्षिप्रमक्षिपत् ॥ २०८ ॥ स्माह च त्वां पतीयन्ती, मा मायातां महामते!। निराकृथा मा सन्तो हि, प्रार्थनाभङ्गभीरवः ।। २०९॥
॥४७॥
000000
१ विस्मितः। २ पीडितमानसः । ३ समुद्रो वाडवानलमिव ।।