________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥४६॥
तन्नाकाषी: शुभं शुभे!॥१८६॥ इति स्वप्नमिषेणापि, प्रोक्तमालुना मया। सा निशम्य निजाकार्य, मर्मज्ञं बुध्यते स्म माम् ॥१८७॥ ततो मद्वाक्यबाणेन, तेन मर्माविधा हदि। विद्धा भीहीव्यथापूरैः, सा भृशं व्याकुलाऽभवत्॥१८८॥ ततो हृदयसकटात्, परासुः साऽजनि द्रुतम् । मर्मवाक्यं हि महतेऽनथार्य खलु कल्पते॥१८९॥ ततस्तां न्यग्मुखी नष्टचेष्टां मीलितलोचनाम् । निरुच्छासांच दीपेन, वीक्ष्यावेदमहं मृताम् ॥ १९० ॥ कोपावेशोल्लसद्वीर्यधैर्यस्तामेककोऽप्यहम् । धेनुं व्याघ्र इवोत्पाट्य, द्राक् प्रतोलीमुपानयम् ॥ १९१ ॥ भूरिप्राघूर्णकत्वेनाप्रदत्तार्गलतालकाम् । द्वाःस्थाभावाच्च को यातीत्यादिप्रच्छकवर्जिताम् ॥ १९२ ॥ शनैरुद्धाट्य तां चाहं, ययौ सौवर्णिकापणम् । तद्द्वारि 'कुड्यावष्टम्भादूर्ध्वामस्थापयं च ताम्॥१९३॥ युग्मम्॥या श्रुताऽऽसीन्मया पूर्वमागतेन तया समम् । सज्ञां तां च विधायाहमन्यतोऽस्थां तिरोहितः॥१९४ ॥ तज्जारोऽपि तदा द्वारं, प्रकाश्येति हसन्नवक् किमायासीनिशीथे त्वं, निद्राविद्रावणाय मे? ॥१९५॥ अहो! ते धृष्टता स्नेहनिष्टता च वचोऽतिगा। यत्प्रवञ्च्यागताऽसीह, चिरायातमपि प्रियम् ॥ १९६ ॥ व्याधाममध्ये ! द्राग् धाममध्ये नाद्य समेषि किम् ? । द्वारे झुद्घाटिते न त्वं, कदाऽप्येवं विलम्बसे ॥१९७ ॥ न भाषसे किं रुष्टाऽसि ?, हास्यवाक्यं * मरण १ भित्तिारवज्रमध्ये!
॥४६॥