________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥४५॥
नाऽऽलोकिताऽपि सदृष्ट्या, दृष्टिः खलु मनोऽनुगा॥ १७४ ॥ मनोऽनुरक्तं यत्र स्यात्तत्र रुद्धाऽपि याति दृक् । मनो विरक्तं यत्र स्यात्, प्रहिताऽपि न तत्र तु॥ १७५ ॥ यद्रूपं सति रागे स्यानेत्रयोरमृताञ्जनम् । रागाभावे तदेव स्थान्नेत्रयोलवणाजनम्॥ १७६ ॥ याते यामेऽथ यामिन्याः, कामिन्या कल्पिते तया। तल्पे सुप्तोऽभवं यावत्, प्रमीलामीलितेक्षणः ॥ १७७ ॥ तावत्समेत्य मे पत्नी, कृत्रिमप्रणया क्रमौ । संवाहयितुमारेभे, हर्षात्सामर्षचेतसः ॥ १७८॥ प्रबुद्धस्तामथोचेऽहं, काऽसि त्वं किं करोषि च? । सा स्माह त्वद्भुजिष्याहमही संवाहयामि ते ॥ १७९ ॥ भूयो मयोचे न कृतमदः सुन्दरि ! सुन्दरम् । यन्मां स्वप्नं वीक्ष्यमाणमक्षणे त्वमबूबुधः ॥१८०॥ सोचे रूपजितास्वप्न' ! स्वप्नोऽसौ मे निवेद्यताम् । पुरः प्राणप्रियाया मे, नाऽवाच्यं किञ्चनास्ति ते ॥ १८१ ॥ ततोऽहमूचे यद्येवं, शृणु तर्हि समाहिता। स्वप्ने स्वमहमद्राक्षं, धाम्नीह द्वाःस्थतां गतम् ॥ १८२॥ मया च मोदकस्थालधारिणाऽनुगतां निशि। उपजारं गतां त्वां चापश्यं सौवर्णिकापणे ॥ १८३ ॥ सङ्केत्य मां गतनिशि, नाऽऽगाः किमिति वादिना ? । तेन कोपाच्चपेटाभिहतां च त्वां व्यभालयम् ॥१८४॥ तच्चपेटाप्रहारैश्च, पतितं ते शिरोमणिम् । अग्रहीषमहं यावत्तावज्जागरितस्त्वया ॥ १८५ ॥ स्वप्नेऽस्मिन्नर्धदृष्टेऽपि, सुन्दरोदर्कसूचके । यदजागारयस्त्वं मां,
॥४५॥