SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥४४॥ 'स्वै:, सौवं सीधमसज्जयम् । विशिष्टभूषा वासोभिः कुर्वस्त्रिदिवस' ज्जयम् ॥। १६३ ।। अथाऽन्यदा युतो मित्रैः सादिभिः सुरसादिभिः । श्वेतवाजिगतः शक्रः, इवाऽऽब्यः सुरसादिभिः ॥ १६४ ॥ सेवकव्यूड सुप्रौढमायूरातपवारणः । बन्दिभिः संस्तुतो भृङ्गैरिव सन्मत्तवारणः ।। १६५ ।। महार्घाशुकसौवर्णालङ्कारशतशोभितः । सारसम्पत्तिभिर्जुष्टः, पत्तिभिः शतशोभितः ॥ १६६ ॥ स निः स्वानस्वनं मार्गे, चलन्नाशु रमाऽऽलयम् । अगां नगय कौशाम्ब्यामहं श्वाशुरमालयम् ।। १६७ ।। चतुर्भिः कलापकम् । तत्राहं कृतसत्कारः, श्यालकैः सम्मुखागतैः । श्वशुरेण सुरेणेव, सुरदुर्मानितो भृशम् ।। १६८ ।। विस्मारिताः किं युष्माभिर्निजा वयमियच्चिरम् ? । चिरात् किं दर्शनं दत्तमस्मद्दर्शनपावनम् ? ॥ १६९ ॥ भवन्तं मुदिरं द्रष्टुं, सोत्कण्ठाः केकिनो वयम् । अद्य मानातिगं हृद्यहृद्यानन्दं वहामहे ॥ १७० ॥ श्यालकाद्यास्तदेत्यादिमुदिता मामवादिषुः । सर्वोऽसावादरः श्रीणां, भवतीत्यनुचिन्तितम् ॥ १७१ ॥ त्रिभिर्विशेषकम् । नानापक्वान्नसरसरसवत्यादिभिस्ततः । राजेव सपरीवारो, भोजितोऽहं सगौरवम् ।। १७२ ।। ततोऽक्रीडमहं नानाकौतुकैः श्यालकैस्समम् । गीतशास्त्रविनोदेहिं, याति कालो मनीषिणाम् ।। १७३ ।। स्वभार्या तु कृताकार्या, मनोबाह्यतया मया । १ धनैः । २ त्रिदिवसदां सुराणां जयम् । ३ मुदिरं मेघं । श्रीचम्पकमाला कथा । ॥४४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy