________________
श्रीजैन कथासंग्रहः
॥४३॥
सुप्तस्तत्रैव, प्रभाते त्वन्यतोऽगमम् । तं चोपलक्षयं सम्यग्, वीक्षमाणशिरोमणिः ॥ १५१ ॥ दध्यौ चैवं जनन्या मे, मौलि योऽभूषयच्चिरम् । सोऽयं चूडामणिर्नूनमस्मद्वंशक्रमागतः ।। १५२ ।। स्नुषाया एव देयोऽयं, नाङ्गजायास्तु जातुचित् । यस्येति सम्प्रदायो मे, पितृभ्यामुदितो मुहुः ।। १५३ ।। भिनधि दुर्दशामनो, भिक्षोद्विप्रस्तमप्यहम् । इत्युदश्रुरहं यावत्, कृतयत्नो बिभेद तम् ।। १५४ ॥ निःससार ततस्तावदेका पत्री सदक्षरा । अवाचयं च तामेवं, विस्मयस्मेरलोचनः ॥ १५५ ॥ वेश्मनीहापवरके, विद्यते वामकोणके । निधिः सौवर्णदीनारचतुष्कोटिमितो महान् ।। १५६ ।। तत् प्रवाच्य महासिद्धिपाठसिद्धोरुमन्त्रवत् । प्रोच्चैरवापमानन्दमहं वाचामगोचरम् ।। १५७ ।। तत्रागमनमुख्यो मे, प्रयासोऽप्यखिलस्तदा । तपोवदासीदापातदुःखोऽप्यायतिसुन्दरः ।। १५८ ॥ पुत्र्या न देयो वध्वाश्च, प्रदेयोऽयं शिरोमणिः । संप्रदायगिरोऽमुष्या, मुख्यार्थं च तदा विदम् ।। १५९ ।। ततः शिरोमणिस्वर्णविक्रयोत्पन्नशम्बलः । चम्पापुर्यामगां स्वीयं, वेश्म सोत्साहसाहसः ।। १६० ।। निशि देशे यथोक्ते च, खनन्ननलसो रसाम् । साक्षाद्भूतं निजं पुण्यमिव तं निधिमासदम् ।। १६१ ॥ जीवातुमातुर इव, गताक्ष इव लोचनम् । आसाद्य शेवधिं तं चावापं निरवधिं मुदम् ।। १६२ ।। तदाकृष्टैः प्रकृष्टे :
श्रीचम्पकमाला कथा ।
॥४३॥