SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥४२॥ प्यायंस्त्वमिहागतः । सा त्वां दासीयति परं, नरं च रमणीयति ॥१३८॥ स्ववशासक्तमपरं, चेन्न हन्तुं त्वमीशिषे । तत्किं न हंसि स्वं जीवं, क्लीब दुर्दैवपीडितम् ? ॥ १३९ ॥रे दैव ! कृत्वा मां वित्तनाशाद्यसुखदर्शिनम् । न तुष्टस्त्वं महाकष्टं, यदीदृशमदीदृशः ॥ १४०॥ किं चेयं कुलजाऽप्येवं, कुलटात्वं दधौ कथम् ? । कृष्णोद्धवाऽपि वा देववेश्या नाभूत् किमुर्वशी ? ॥ १४१ ॥ यद्वा स्वेनैव दोषेण, व्यनेशत् स्त्री रमेव मे। द्वादशाब्दीमुपेक्ष्यामू, यद्धेजे गणिकामहम् ॥१४२॥ यद्वा मद्विरहेऽप्येषा, नैवेत्थं कर्तुमर्हति । न हि भानुवियोगेऽपि, विधुं भजति पद्मिनी ॥१४३ ॥ सन्नारीभिर्विपन्नेऽपि पत्यौ नासेव्यते परः । मयि सत्यप्यसौ त्वन्यं, निर्लज्जा भजतेऽनिशम् ॥१४४॥ इयं चान्यैरपि नरैर्विलसन्ती भविष्यति । यदतिक्रान्तकान्तानां, नरेयत्ता न योषिताम् ॥ १४५ ॥ अनाचाराम्बुकुल्याऽसौ, तत्कुल्याकथ्यते कथम् ?। उच्यते हि सदाचारः, कुलीनत्वादिलक्षणम्॥१४६॥ सङ्गोऽस्यास्तदनार्याया, नार्या नाऽऽर्यस्य मे श्रिये । दुष्टा हि कान्ता दुष्टाहिकान्तावन्मृत्यवे भवेत् ॥ १४७॥ स्वकीयं वादसीयं वा, वृत्तं न क्वाप्यदोऽधुना। मया प्रकाश्यं कस्यापि, पुरो लाघवकारणम्॥१४८॥ नाथेह मे स्थितिर्युक्ता, दुःखस्मृतिनिबन्धनम् । न वा गतिर्निजपुरे, दुःखस्मृतिनिबन्धनम् ॥ १४९ ॥ तदद्यलब्धतच्चूडामणिस्वर्णोत्थशम्बलः । यास्यामि यद्भविष्येऽहं, प्रत्यूषे विषयान्तरम्॥१५०॥ध्यात्वेति ॥४२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy