SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥४२॥ प्यायंस्त्वमिहागतः । सा त्वां दासीयति परं, नरं च रमणीयति ॥१३८॥ स्ववशासक्तमपरं, चेन्न हन्तुं त्वमीशिषे । तत्किं न हंसि स्वं जीवं, क्लीब दुर्दैवपीडितम् ? ॥ १३९ ॥रे दैव ! कृत्वा मां वित्तनाशाद्यसुखदर्शिनम् । न तुष्टस्त्वं महाकष्टं, यदीदृशमदीदृशः ॥ १४०॥ किं चेयं कुलजाऽप्येवं, कुलटात्वं दधौ कथम् ? । कृष्णोद्धवाऽपि वा देववेश्या नाभूत् किमुर्वशी ? ॥ १४१ ॥ यद्वा स्वेनैव दोषेण, व्यनेशत् स्त्री रमेव मे। द्वादशाब्दीमुपेक्ष्यामू, यद्धेजे गणिकामहम् ॥१४२॥ यद्वा मद्विरहेऽप्येषा, नैवेत्थं कर्तुमर्हति । न हि भानुवियोगेऽपि, विधुं भजति पद्मिनी ॥१४३ ॥ सन्नारीभिर्विपन्नेऽपि पत्यौ नासेव्यते परः । मयि सत्यप्यसौ त्वन्यं, निर्लज्जा भजतेऽनिशम् ॥१४४॥ इयं चान्यैरपि नरैर्विलसन्ती भविष्यति । यदतिक्रान्तकान्तानां, नरेयत्ता न योषिताम् ॥ १४५ ॥ अनाचाराम्बुकुल्याऽसौ, तत्कुल्याकथ्यते कथम् ?। उच्यते हि सदाचारः, कुलीनत्वादिलक्षणम्॥१४६॥ सङ्गोऽस्यास्तदनार्याया, नार्या नाऽऽर्यस्य मे श्रिये । दुष्टा हि कान्ता दुष्टाहिकान्तावन्मृत्यवे भवेत् ॥ १४७॥ स्वकीयं वादसीयं वा, वृत्तं न क्वाप्यदोऽधुना। मया प्रकाश्यं कस्यापि, पुरो लाघवकारणम्॥१४८॥ नाथेह मे स्थितिर्युक्ता, दुःखस्मृतिनिबन्धनम् । न वा गतिर्निजपुरे, दुःखस्मृतिनिबन्धनम् ॥ १४९ ॥ तदद्यलब्धतच्चूडामणिस्वर्णोत्थशम्बलः । यास्यामि यद्भविष्येऽहं, प्रत्यूषे विषयान्तरम्॥१५०॥ध्यात्वेति ॥४२॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy