________________
श्रीजैन कथासंग्रहः
॥४१॥
ताम् ।। १२५ ।। तत्प्रहारत्रुटज्जीर्णसूत्रस्तस्याः शिरोमणिः । तदोत्प्लुत्य तदज्ञातो, न्यपतन्मत्क्रमोपरि ॥ १२६ ।। भाग्याकृष्टं सुरमणिमिव तं चाहमाददे । सा पांशुला तु तत्पादपतितेति तदाऽवदत् । १२७ ।। कोपं संवृणु मद्वाक्यं शृणु नाथ ! यथास्थितम् । निर्मन्तुमपि मां हन्तुं कथं कान्त ! प्रवर्त्तसे ? ॥ १२८ ॥ मां 'स्तमायामायान्तीमिह दौवारिकोऽरुणत् । मया स हि बहूक्तोऽपि, प्रतोलीं नोदघाटयत् ।। १२९ ॥ स सदैवानुकूलोऽपि दैवाद्वक्रस्तदाऽभवत् । विधाविव विरुद्धे हि, विधौ स्वोऽपि रिपूयते ॥ १३० ॥ वारीगता गजीवाहं, मृगीवावाप्तवागुरा । दुःखं प्रापं तदाहं यत्तन्मा भून्मद्रिपोरपि ॥ १३१ ॥ प्रातस्तु तातं विज्ञप्यापरं द्वाःस्थमकारयम् । व्यसर्जयं च प्राचीनं, त्वद्वियोगोरुदुःखदम् ।। १३२ ।। तत्तुल्यमेव दिवसं, चातिवाह्य कथञ्चन । स्मरापस्मारविवशा, त्वां दोषज्ञमुपाश्रयम् ।। १३३ ।। तन्मामनुगृहाण त्वं निर्दोषां निगृहाण मा । गृहाण मोदकानेतान्, सद्भावेनोपदीकृतान् ॥ १३४ ॥ धुनीहि संशयं नास्मि, धुनी दोषाम्भसामहम् । पुनीहि मां सौम्यद्ददृशा, दुःखदर्भालुनीहि च ॥ १३५ ॥ तयेत्युक्तः प्रसन्नात्मा, स्वीचक्रे तान् स मोदकान् । यदज्ञानान्मयोक्तं तत्, सहस्वेति च तां जगी ॥ १३६ ॥ इयन्तमेव वृत्तान्तं स्वपत्न्या वीक्ष्य दुर्मनाः । अहं सञ्जातनिर्वेदातिरेकस्तद्गृहं ययौ ॥ १३७ ॥ अचिन्तयं च रे जीव !, यां १ कल्ये । * नदी
श्रीचम्पकमाला कथा ।
॥४१॥