SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥४०॥ व्यधाच्च माम् ॥ ११३ ॥ सा मामावर्जयामासाशनाचैः स्वार्थसिद्धये । तातेति रासभमपि, ब्रूते कार्यवशाज्जनः ॥ ११४ ॥ रात्री तु लोके सुमे सा, सारालकारधारिणी । उपासरन्मां. सामोदमोदकस्थालभारिणी ॥ ११५ ॥ तया प्रोक्तोऽथ सद्योऽहं, प्रतोलीमुदघाटयम् । स्थालं च मोदकापूर्ण, तद्दत्तमुदपाटयम् ॥ ११६ ॥ शनैः प्रतोलिकाद्वारं, संवृत्यान्वगमं च ताम् । सा त्वगात् कामितनरास्पदं सौवर्णिकापणम्॥११७ ॥ तत्र सा मोदकस्थालमादायेति जगाद माम् । याहि सत्यापय द्वारं, क्षणादेष्याम्यहं पुनः ॥ ११८ ॥ किञ्चिद्गतस्ततस्तस्या, विश्वासाय गृहं प्रति । व्यावृत्यागां तत्स्वरूपावगमाय तदापणम् ॥ ११९ ॥ निशावशात्तदज्ञातस्तत्र स्तम्भतिरोहितः । चौरवन्निभृतः सावधानश्चर इवाभवम् ॥ १२० ॥ तदा तत्कृतसंज्ञाभिर्जारो ज्ञाततदागमः । उद्घाटय द्वारमित्यूचे, कोपकम्पितभूधनः ॥१२१॥ अरे ! कृत्वाऽपि सङ्केतं, गतनिश्यागता न किम् । कामुकः सरसः कोऽपि, सङ्गतः किं तवापरः ॥१२२ ॥ उज्जागरं 'गरमिव, गिरीशो हन्त! दुःसहम् । असासहमहं त्वंतु, सुखं शेषे परैः समम् ॥ १२३ ॥ याहि रे याहि पापिष्ठे !, पृष्ठं दर्शय मे निजम् । तव स्नेहाग्निना दग्धदेहगेहेन मे कृतम् ॥१२४॥ इत्युक्त्वा तच्छिरोवस्त्रमाकृष्यासौ क्रुधा ज्वलन् । प्रजहार चपेटाभिर्भूतात्तामिव मूर्षि १विषमिव। ॥४०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy