SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥४०॥ व्यधाच्च माम् ॥ ११३ ॥ सा मामावर्जयामासाशनाचैः स्वार्थसिद्धये । तातेति रासभमपि, ब्रूते कार्यवशाज्जनः ॥ ११४ ॥ रात्री तु लोके सुमे सा, सारालकारधारिणी । उपासरन्मां. सामोदमोदकस्थालभारिणी ॥ ११५ ॥ तया प्रोक्तोऽथ सद्योऽहं, प्रतोलीमुदघाटयम् । स्थालं च मोदकापूर्ण, तद्दत्तमुदपाटयम् ॥ ११६ ॥ शनैः प्रतोलिकाद्वारं, संवृत्यान्वगमं च ताम् । सा त्वगात् कामितनरास्पदं सौवर्णिकापणम्॥११७ ॥ तत्र सा मोदकस्थालमादायेति जगाद माम् । याहि सत्यापय द्वारं, क्षणादेष्याम्यहं पुनः ॥ ११८ ॥ किञ्चिद्गतस्ततस्तस्या, विश्वासाय गृहं प्रति । व्यावृत्यागां तत्स्वरूपावगमाय तदापणम् ॥ ११९ ॥ निशावशात्तदज्ञातस्तत्र स्तम्भतिरोहितः । चौरवन्निभृतः सावधानश्चर इवाभवम् ॥ १२० ॥ तदा तत्कृतसंज्ञाभिर्जारो ज्ञाततदागमः । उद्घाटय द्वारमित्यूचे, कोपकम्पितभूधनः ॥१२१॥ अरे ! कृत्वाऽपि सङ्केतं, गतनिश्यागता न किम् । कामुकः सरसः कोऽपि, सङ्गतः किं तवापरः ॥१२२ ॥ उज्जागरं 'गरमिव, गिरीशो हन्त! दुःसहम् । असासहमहं त्वंतु, सुखं शेषे परैः समम् ॥ १२३ ॥ याहि रे याहि पापिष्ठे !, पृष्ठं दर्शय मे निजम् । तव स्नेहाग्निना दग्धदेहगेहेन मे कृतम् ॥१२४॥ इत्युक्त्वा तच्छिरोवस्त्रमाकृष्यासौ क्रुधा ज्वलन् । प्रजहार चपेटाभिर्भूतात्तामिव मूर्षि १विषमिव। ॥४०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy