________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
॥३९॥
सान्तरुदिताउनलेव प्राज्वलदुषा॥१०१॥ ततोऽन्तर्धाम भूच्छा याविच्छायास्या जगाम सा। जाग्रत्तदा ..तदालापं, श्रुत्वेत्यहमचिन्तयम् ॥ १०२ ॥ निशीथे याऽनिशं याति, बहिः सा न हि शोभना ।
वीक्षिष्येऽस्याश्चरित्रं तत्, स्त्रीरागामयभेषजम् ॥१०॥ध्यायन्नित्याग्रहं किञ्चित्, स्वस्थो निद्रामवाप्नवम् । अजागरं प्रभाते च, सह स्मेरैः पयोरुहैः ॥ १०४ ॥ टुकामोऽहमुत्तस्थौ, भार्याकार्य श्रिताम्बरः । जगत्कर्म जगत्कर्मसाक्षीव प्रगुणस्तदा ॥१०५॥ नष्टं तमोभिस्त्वद्वैरियशोभिरिव सर्वतः । तिरोहितं तदा 'तारस्त्वद्राज्ये तस्कररिव ॥१०६॥ तदा चक्रैः प्रमुदितं, सदा त्वत्सेवकैरिव। कौशिकैश्च भवद्वैरिवगैरिव पलायितम्॥१०७॥ तदाऽर्को ज्ञैः स्तुतस्त्वद्वर्य'मन्दरसोदयः। कजव्रजस्त्वज्जनवज्जज्ञेऽमन्दरसोदयः ॥१०८॥ दिने तत्रापि भिक्षायै, ततोऽहं तद्गृहे गतः । किं जातीयोऽसीति पृष्टो, मत्पल्या दत्तभिक्षया ॥ १०९ ॥ अहं वणिक्सुतोऽस्मीति, मयोक्ते सा पुनर्जगी। अस्मत्सौधप्रतोल्यां भो भद्र ! द्वाःस्थो भविष्यसि ॥ ११० ॥ दिदक्षोस्तच्चरित्रं मे, तदभूतद्वचः प्रियम् । पिपासोरिव शीताम्बु, बुभुक्षोरिव भोजनम् ॥ १११ ॥ ततो मया ओमित्युक्ते, सा कञ्चित् पूर्ववेत्रिणः । बभाषे कृत्रिमं दोषं दोषारोवात् पितुः पुरः ॥११२ ।। तत्सत्यासत्यतां पुत्र्या, विश्वासादविमृश्य सः । व्यसृजत्तं प्रतीहारं, तस्या वाचा १ वान्तम् । २ भकनीनिकयोस्तारः इति तारशब्दस्य पुंजीलिङ्गता ॥ ३ पर्यवन्मेरुपर्वते उदयवान् अर्कः।।
.
. ..
.
..
.
॥३९॥