________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥३८॥
सम्प्रत्यस्तं याम्यहमप्यतः। त्वं माशोचीरिति तदा, भानुसमन्वशादिव॥८९॥ तदा रथाङ्गाः क्रन्दन्तः, कान्ताविश्लेषदुःखतः । प्रियावियोगतप्तस्य, समदुःखा ममाऽभवन् ॥ ९॥ प्रास्फुरत् सान्ध्यरागश्च, वेश्याराग इवास्थिरः। पद्माकराच निःश्रीकास्तदाऽऽ'सन्मादृशा इव ॥११॥ दुःखैरहमिव व्यापि, तदा विश्वं तमोभरैः । मद्विपक्षैरिव प्रोच्चैः, कुमुदैर्मुदवाप्यत॥९२॥ निरुद्धसारव्यापारा, महशेवाऽभवनिशा । पापैर्मत्कर्मभिरिव, तदा प्रस्फूर्जितं जनैः ॥१३॥रात्रेर्यामे ततोऽतीते, कपाटार्गलतालकैः। सौधप्रतोली संवृत्य, द्वाःस्थ: स्वस्थोऽस्वपत् सुखम् ॥ १४॥ ततोऽहं द्वारपार्श्वस्थाऽद्यालकेऽवस्थिते बहिः । सुष्वाप नाऽपं स्वापं तु, चिन्ताऽऽक्रान्तमनस्तया॥१५॥ निशीथेऽथ प्रतीहारमेत्य स्माहेति मेजना। आर्य! केनापि कार्येणावश्यं गन्तव्यमस्ति मे॥१६॥ क्षिप्रमुद्धाट्य द्वारमधुना मा धुनाः शिरः । गत्वाऽऽगच्छामि यावच्च, तावत्तिष्ठाप्रमद्वरः ॥ ९७॥ तामुद्विमतया चण्डतया चैवमुवाच सः । यास्यसि कार्घराने त्वं, ब्रूहि कार्य किमस्ति ते?॥९८ ॥ अयं हि गन्तुं समयश्चौरादीनां सतां न हि । तत्प्रातरेव तत्कुर्याः, साम्प्रतं यचिकीर्षितम् ॥ ९९ ॥ नाऽहं निशीथादारभ्यानिशं जागरितुं क्षमः । दौवारिकं कुरुष्वान्यं, निशि जागर्ति योऽन्वहम् ॥ १०० ॥ इत्युच्चैरुदिता तेन, रुदिता वेदिताऽसुखा । दिनाशा १ अशिक्षयदिव ॥२ अभवन् । ३ व्याप्तम्।...
..
॥३८॥
... ...
.