________________
श्रीजैन कथासंग्रहः
॥३६॥
व्यवसायमथ द्रव्यलाभोपायं तनोम्यहम् । वित्ते हि सति भूयोऽपि महत्त्वाद्याप्स्यते स्वयम् ॥ ६६ ॥ उक्तं च यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स' श्रुतवान् गुणज्ञः । स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते |१| बीजं बिना कृषिरिव, 'नीवीवित्तं विना मया । व्यवसायः कथं वित्तावाप्त्युपायः करिष्यते ? ॥ ६७ ॥ नीवीं विना हि व्यापारः, पारवश्यादिदुःखदः । सेवाप्रभृतिरेव स्यान्न च सक्रियते मया ॥ ६८ ॥ नीवी च श्वशुरादेव, लप्स्यते नान्यतो मया । स हि दाता सुतास्नेहाद्दुर्देयमपि मे धनम् ।। ६९ ।। श्वशुरप्रार्थना प्रत्यादिष्टा' यद्यपि धीमताम् । अनन्यगतिकत्वेन, करिष्यामि तथाऽपि ताम् ॥ ७० ॥ प्रियार्थमन्यदाऽप्यस्ति, गम्यं मे श्वशुरौकसि । तद्याम्यद्यैवाऽस्तु कृत्यद्वयमेकभ्रमेण मे ॥ ७१ ॥ रामां ततः समानीय, वासयामि स्वमन्दिरम् । रमां पुनः समानीयोद्वासयामि दरिद्रताम् ।। ७२ ।। ध्यात्वेत्यहं वपुर्मात्रपरिवारोऽङ्घ्रिवाहनः । प्रस्वेदजलसम्पृक्तरजोभरविलेपनः ।।७३॥ असंस्कृतश्लथप्रौढधम्मिल्लातपवारणः । वटादितरुपत्रालीकृतभोजनभाजनः ॥ ७४ ॥ वित्ताभावात् स्वीयवस्त्रविक्रयेण कृताशनः । क्रमाज्जगाम कौशाम्बीपुर्यां श्वशुरवेश्मनि ॥ ७५ ॥ त्रिभिर्विशेषकम् ॥ तत्र सामान्यवेषत्वान्न केनाप्युपलक्षितः । निषिद्धो दौवारिकेण, प्रवेशमपि नाऽऽप्नवम् ।। ७६ ।। ततोऽहं १ श्रुतिमान् इत्यपि । २ मूडी ॥ ३ निराकृता ।
श्रीचम्पकमाला कथा ।
॥३६॥