________________
श्रीचम्पकमाला
श्रीजैन कथासंग्रहः
का
॥३३॥
प्रहितमन्वहम् । इत्वं मे वसतस्तत्र, जज्ञे द्वादशवत्सरी ॥ ३० ॥ वित्तार्थ वेश्यया दासी, मत्सौधे प्रेषिताऽन्यदा। रिक्ता प्रत्याययो भिक्षुकीव 'कीनाशवेश्मनः ॥ ३१ ॥ ततो दूनो 'चिदूना सा, मां स्माहेति पणाना। क्षीणवित्तोऽपि किं नाद्य, वेश्मास्माकं जहासि भोः ! ॥ ३२ ॥ वेश्या वश्या: सवित्तानां, वित्तं ह्येतज्जगत्त्रये । प्रेमास्माकं त्वयि कथं, तत्क्षीणविभवे भवेत् ? ॥ ३३ ॥ दृश्यते चापवित्तस्य, वयस्योऽपि रिपूभवन् । शोषयत्यम्बुहीनानि, भानुः पद्यानि किं न हि ? ॥ ३४ ॥ कलावन्तमपि क्षीणं, नाऽऽद्रियन्ते विचक्षणाः । शुभकर्मसुदैवज्ञाः', किंन क्षीणेन्दुमत्यजन् ?॥३५॥ तद्गच्छ स्वच्छ ! भोगाशां, वर्जयावर्जयोद्यमम् । धनमर्जय दारिद्यं, मार्जयारीश्च तर्जय ॥ ३६॥ यदि चास्मासु ते स्नेहः, प्रगाढश्चिरसंस्तवात् । तदोपार्जितवित्तस्त्वं, भूयोऽपि द्रुतमापतेः ॥ ३७ ॥ तच्छ्रुत्वाऽचिन्तयमहो!, निर्दाक्षिण्या पणाङ्गना। चिरकालीनमपि या, स्नेहं हित्वैवमाह माम् ॥ ३८॥ यद्वा या द्रव्यलोभेन, कुष्ठिनोऽपि स्मरीयति। तासां वित्तैकचित्तानां, कः स्नेहः पणयोषिताम् ?॥३९॥ ध्यायन्निति गृहात्तस्या, निर्गतो विमना मनाक् । स्वीयभोगकृते वेश्याच्छिन्नसद्वस्त्रभूषणः ॥ ४० ॥ मेदस्विखेदः प्रस्वेदक्लिनकायः स्खलत्क्रमः । स्वगेहेऽगांच्युतः स्वर्गात्, स्वर्गीव नरजन्मनि ॥४१॥
.
.
..
.
॥३३॥
कृपणगृहात् । २ चिदा ज्ञानेन जूना। प्रसिद्धम् । ज्योतिषिकाः। ५ अत्यन्त-।