SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥३२॥ इतश्च पुर्या चम्पायां, वशावर्गमतल्लिका । वेश्या कामपताकाख्या, रूपसौभाग्यभूरभूत् ॥ १८॥ मृगाक्षी वीक्षिताऽन्येद्युः सा तद्रेहगवाक्षगा। अबलाऽपि मनोऽहार्षीत्, प्रसह्य बलिनोऽपि मे ॥ १९ ॥ यद्वा- 'वशिनोऽपि वशीकर्तु योर्वशीव प्रभूयते । वशीकरोति मच्चेतः, सा चेत्तत्र किमद्भुतम् ? ॥ २० ॥ मद्देहगेहसारस्य, चित्तवित्तस्य चोरणात् । गर्हार्हामपि तां मोहादचिकीर्षं प्रियामहम् ॥ २१ ॥ ततोऽनु धेनुमिव गौस्तस्याः सौधेऽनु तामगाम् । आकृष्टमानसो बाढं, तद्गुणैः कार्मणैरिव ॥ २२ ॥ निविष्टां विष्ट तत्र, पद्ये पद्यामिवोच्चकैः । दिशो दशोद्योतयन्तीं, हृद्यद्युतिकदम्बकैः ॥ २३ ॥ भूषितावयवां रत्नालङ्कारैराशिरःक्रमम् । वर्धयन्तीं स्वसाहाय्यादनङ्गस्यापि विक्रमम् ॥ २४ ॥ कृतरम्भाजयारम्भां, रम्भागर्भाभविग्रहाम् । सुवर्णेन समं स्वाङ्गवर्णेन कृतविग्रहाम् ।। २५ ।। अगण्यपुण्यलावण्यवशीकृतर' साधराम् । तामद्राक्षमहं द्राक्षासवजिष्णुरसा धराम् ॥ २६ ॥ चतुर्भिः कलापकम् ॥ साऽपि वारवधूवारमुख्या सख्याय सादरा। मां समीक्ष्य समुत्थाय, कृताञ्जलिरदोऽवदत् ॥ २७ ॥ स्वामिनेहि निजां सौम्यदृशं मयि निधेहि च । स्वाभीष्टमभिधेहि त्वं, यद्विधेयं विधेहि तत् ॥ २८ ॥ तयैवमुदितश्चित्ते, मुदितस्तद्गृहे वसन् । नित्यं तया सहाक्रीडं, रम्भयेव सुधाशनः ॥ २९ ॥ तत्प्रार्थितं धनं चादां, पित्रा १ मुनीनपि । २ नृपो यया ताम् । ३. मदिराजेतृरसवान् ओष्ठो यस्यास्ताम् ॥ श्रीचम्पकमाला कथा । ||३२||
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy