________________
श्रीजैन कथासंग्रहः
॥३१॥
॥७ ॥ इतश्च पुर्या कौशाम्ब्यां, श्रेष्ठी विमलवाहनः । तस्यासीन्नन्दना नाम्ना, रूपलक्ष्म्या च रुक्मिणी ॥८ ॥ ताताऽऽज्ञया पर्यणयं, तामहं समहामहम् । प्राणेभ्योऽपि प्रियां तां च, मानयन् सौधमानयम् ॥ ९ ॥ भुञ्जानश्च तया साकं भोगान् निर्भाग्यदुर्लभान् । इति नीतिवचोऽश्रीषमन्यदा कोविदोदितम् ॥ १० ॥ जातषोडशवर्षोऽपि, यो भुङ्क्ते पैतृकं धनम् । स्यादुत्तमर्ण एवासौ पितुर्न तु सुखावहः ॥ ११ ॥ यदुक्तम्- जनकार्जिता विभूतिर्भगिनीति सुनीतिवेदिभिः सद्भिः । सत्पात्र एवं योज्या, न तु भोग्या यौवनाभिमुखैः ॥ १ ॥ स्तन्यं मन्मनवचनं, चापलमपहेतुहास्यमत्रपताम् । शिशुरेवार्हति पांशुक्रीडां भुक्तिं च पितृलक्ष्म्याः ॥ २ ॥
श्रुत्वेति जलमार्गेण, यियासुर्धनमर्जितुम् । जलोपद्रवभीतेन, तातेनाहं निवारितः ।। १२ ।। स्थलाध्वना ततो नानावस्तुस्तोमभृतो वृषान् । आदाय व्यवसायार्थमहं देशान्तरं ययौ ।। १३ ।। तत्र चिन्तातिगं लाभं प्राप्यान्यैः पण्यसञ्चयैः । लक्षशोऽपि वृषान् भृत्वा, यातस्तातममोदयम् ॥ १४ ॥ परस्वदेशयोरेवं, मुहुः कुर्वन् गमागमान् । धनमार्जयमालस्यावर्णवादममार्जयम् ।। १५ । रजोभिर्वृषभव्यूहक्षुण्णक्षोणीतलोत्थितैः । अकाण्डोद्यद्धनमिव, गगनं यदभूत्तदा ।। १६ ।। जनो मे तेन गगनधूलिरित्यभिधां व्यधात् । ततः प्रतीता सैवासीदाख्या सर्वत्र मे विभो ! ॥ १७ ॥
श्रीचम्पकमाला
कथा ।
.
॥३१॥